________________
भट्ट श्रीचक्रधरप्रणीतः [ का०पृ० १४० वि०पू० १५३ आप्तवादाविसंवाद सामान्यादिति । यथा धूमसामान्यादग्निसामान्यनिश्चय ए[62A]वमाप्तवादसामान्या [द] विसंवादित्वसामान्यनिश्चय इत्यर्थः । आप्तवा दानां वा अविसंवादः सामान्यं रूपम्, यो य आप्तवादः स सोऽविसंवादीत्यर्थः । पदात्तु विशेषणावगतीति । गोशब्दाद् गोत्वविशिष्टपिण्डावगतेः ।
सा देशस्येति । प्रमेयता, पूर्वस्मिन्नर्थे 'तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता' इति [ श्लो० वा० अनु० ४७] तस्या एव प्रक्रान्तत्वात् ।
गत्वादिसामान्यात्मकस्य हेतोरिति । गकारऔका रविसर्जनीयव्यतिरेकेणान्यस्य भिन्नस्य गोशब्दस्याभावात् तेषां च क्षणिकत्वेनान्यत्रान्वयाभावेन गमकत्वाभावात् तत्सामान्यानामेव हेतुत्वमिति ।
9
७२
तत्पूर्ववति । अन्वयग्रहणे सति अर्थबुद्धिः, अर्थबुद्धौ सत्यामन्वयप्रहणमिति । एतेन व्यतिरेकग्रहणमिति । किमर्थ बुद्धावुत्पन्नायाम् 'यत्रेयमर्थबुद्धिर्नास्ति तत्र शब्दबुद्धिरपि नास्ति' इत्यादि । तत्र योऽन्वेति यं शब्दमिति । तथाहियथा 'घटं करोति' इत्यत्र कर्मशक्तिः प्रतीयते तथा घटशब्दापाये 'पटं करोति' इत्यत्रापि प्रतीयमाना 'अम्' प्रत्ययवाच्यत्वमात्मनो निश्चाययति; एवं 'घटं करोति' इत्यत्र घटप्रातिपदिकार्थो योऽवगतः स स [ 62B] त्यप्यम् - प्रयोगे 'पटं करो [ति]' इत्य. त्राप्रतीयमानः प्रकृत्यर्थ इति निश्चीयते । समयनियमार्थाविति । प्रकृतिप्रत्ययात्मकत्वाच्छब्दस्य कस्य कस्मिन्नंशे समयः कृत इत्ययमंशोऽस्य शब्दांशस्य वाच्योsयमस्येति प्रागुक्ताभ्यामन्वयव्यतिरेकाभ्यां निश्चीयते ।
नैवावगतिपूर्विकेति । न हि येन पूर्वे धूमादग्निरवगतः स एव धूमादग्निं प्रतिपद्यतेऽपि तु येनापि न प्रतिपन्नोऽग्निना सह भूयोदर्शनेन धूमस्य गृहीतः सम्बन्धः सोऽति प्रतिपद्यत एव ततोऽग्निम् | शब्दस्तु येन तदर्थवाचकत्वेनावगतः स एव ततोऽर्थ प्रतिपद्यते नान्यः ।
१ धर्मकीर्तेः प्रमाणवार्तिकगतकारिका (३.२१९ ) जयन्तेन सूचिता । सा यथा - आप्तवादाविसंवाद सामान्यादनुमानता । बुद्धेरगत्याभिहिता परोक्षेऽप्यस्य गोचरे ॥ २ अथ 'गौः' इत्यत्र कः शब्दः ? कारौकार विसर्जनीया इति भगवानुपवर्षः शा० भा० १.१.५ । ३ श्लो०वा०वाश्या० १६० । तत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ । अन्यथाऽनुपपत्त्या हि शक्तिस्तत्राऽवतिठते ॥ इति परिपूर्ण पद्यम् । ४ अन्वयव्यतिरेकाभ्यामप्यर्थो गम्यते तयोः । अमाद्युपजनाऽपाये वृक्षार्थो ह्यनुगम्यते ॥१५७॥ वृक्षं वृक्षेण चेत्यत्र वृक्षत्वं तावदेव हि । कर्मत्वं हीयते पूर्व कर णत्वं च जायते ॥ १५८ ॥ तथा वृक्षं घटं चेति कर्मत्वमनुगम्यते । वृक्षत्वं हीयतेऽन्या च घटधीरुपजायते ।।१५९ ।। श्लो०वा०वाक्या० । चक्रधरेण एतत्कारिकाव्याख्यानं कृतमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org