________________
॥ तृतीयम् आह्निकम् ॥
॥ ॐ नमः शिवाय ॥ लक्षणविनिश्चयार्थमिति । अव्यभिचारादिविशिष्टार्थोपलब्धिजनकत्वं प्रमाण लक्षणम् । तद् दृष्टे विषय उपदेशस्य प्रमाणान्तरसंवादसम्भवान्निश्चीयेतापि, अदृष्टे तु विषये प्रमाणान्तरसंवादासम्भवात् कथं तद्विनिश्चय इति तदर्थमाप्तग्रहणम् । आप्तस्योपदेशो दृष्टे विषयेऽव्यभिचारादिविशेषणार्थोपलब्धिजनकत्वेन दृष्टः, अदृष्टेऽप्याप्तोपदेशरूपत्वात् तथाविधो भवत्येवेति । यथा नियतगन्धाधुपलब्धिजनकत्वं लक्षणं घ्राणादीनां कथं विनिश्ची[61B] येतेति तद्विनिश्चयाथ 'भूतेभ्यः" इति पदम् । विशिष्ट. भूतप्रकृतिकत्वाद् भवति नियतार्थोपलब्धिजनकत्वं लक्षणमिति । एवं हि ऐतिह्यस्येति । 'इह वटे यक्षः प्रतिवसति' एतदुपदेशरूपं न त्वाप्तोपदेशः, एतदुपदेष्टुराप्तस्यानिआता(ना)त् ।
- बुद्धयादिपदवदिति । यथा 'बुद्धिरुपलब्धिः' इत्यत्र पर्यायाणामेव ल[क्ष]णत्वमुक्तम् ।
बिम्बस्यापीति । बिम्बस्य प्रतिबिम्बे दृष्टे देवदत्तस्यैतत्पदमिति प्रतीतेः । न वर्णेभ्योऽर्थप्रतिपत्तिरपि तु वर्णाभिव्यक्तात् स्फोटादिति पक्षं निराकर्तुमाहश्रोत्रग्राह्यस्य वर्णराशेरित्यादिना ।
___ आप्तिं दोषक्षयमाचक्षते । 'क्षीणदोषोऽनृतं वाक्यं न याद् हेवसम्भवात्' इति [माठरवृ० ५] , तदुपदेशः सत्य एवेति ।
हस्तसंज्ञादिलिङ्गेऽपीति । यदेत्थमगुल्यस्तदेदं बोद्धव्यमिति ।
अश्व इत्यादिशब्दवदिति । अश्व इति घोटकाभिधायि प्रातिपदिकम् , आख्यातं तु श्वयतेः चङि सिपि “विभाषा धेट्श्व्योः ” (पाणिनि ३.१.४९] इति श्वेः अडि 'श्वयतेरः' [पाणिनि ७.४.१८] इत्यत्वेऽडागमे च कृते यत् सिद्धयति तद् बृंह(हि)[त]वांस्त्वमित्यर्थे ।
१ न्या०सू० १.१.१२। २ भूतेभ्य इति। नानाप्रकृतीनामेषां सतां विषयनियमः, नैकप्रकृतीनाम् । सति च विषयनियमे स्वविषयग्रहणलक्षणत्वं भवतीति । न्या भा० १.१.१२ । ३ इति होचुरित्यनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमै तिह्यम् । न्या० भा० २.२.१। ४ बुद्धिरुपलब्धिर्ज्ञानमित्यनान्तरम् । न्या०स० १.१.१५। ५ वर्णानां प्रत्येक वाचकत्वे द्वितीयादिवों. च्चारणानर्थक्यप्रसङ्गात् । आनर्थक्ये तु प्रत्येकमुत्पत्तिपक्षे योगपद्ये नोत्पत्त्यभावात् । अभिव्यक्तिपझे तु क्रमेणवाभिव्यक्त्या समुदायाभावात् एकस्मृत्युपारूढानां वाचकत्वे सरो रस इत्यादी अर्थप्रतिपत्त्यविशेषप्रसङ्गात् तद्व्यतिरिकः स्फोटो नादाभिव्यङग्यो वाचकः। महाभाष्यप्र० प्र०१६ । ६ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद् विदुः । क्षोणदोषोऽनृतं वाक्यं न यात्विसंभवातू ।। माठरवृ. ५. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org