________________
न्यायसिद्धान्तदीपे एवं प्राप्तेऽभिधीयते' । व्याप्तिस्मरणानन्तरं किश्चित्वादिना रूपेण धृमविशिष्टपर्वतज्ञानात् वह्निर्नानुमीयत इत्यविवादम् । तत्र किं धुमत्वप्रकारकेत्वव्यतिरेकाद् वा कार्यव्यतिरेकः कल्प्यताम् , तदव्याप्यत्वप्रकारकत्वव्यतिरेकाद्वा । तत्र प्रथमस्य गौरवकरत्वात् , द्वितीयस्य व्याप्तिज्ञाने स्वीकारात् लघुत्वाच्च द्वितीय एव ज्यायान् । एतदेवानुसन्धायाचार्यैरिदमुक्तम्
___ "तत्र लिङ्गत्वोल्लेखि तृतीयं ज्ञानमेषितव्यम्” इति । न च धूमाद्युपहितानुमितौ धूमत्वादिप्रकारकज्ञानस्य पूर्वमुपजीव्यत्वेन धूमत्वादिप्रकारककल्पनैव युक्तेति वक्तव्यम् । तस्य ह्यनुमितिविशेष प्रति प्रयोजकत्वं न तु सामान्य प्रति । प्रकृतेऽनुमितिमात्रं प्रति कारणतावच्छेदकः प्रकारो विर्चायते । न च तथा धूमत्वादि । व्यभिचारात् । किंच तत्तदुपहितवह्नयनुमितित्वं न धमत्वादिप्रकारकज्ञानप्रयोज्यम् । किन्तु तत्तद्व्याप्यत्वप्रकारकज्ञानप्रयोज्यमेव । धूमत्वादिपकारकज्ञानप्रयोज्यं तु धमत्वादिविशिष्टज्ञानत्वमेव । यत् पुनर्विकल्प्यापादनदूषणं कृतं तदापादनमात्रोच्छेदकत्वादुपेक्षणीयम् । तथाहि-सामान्यप्रसिद्धिमादाय आपादनं प्रवर्त्तते न विशेषप्रसिद्धि, तथैव सर्वत्र दर्शनात् । यत् पुनरुक्तं ज्ञानद्वयानन्तरं तृतीयं ज्ञानमुत्पद्यत इत्यसिद्धम् , अनुमितिसामग्रयाः प्रतिबन्धकत्वादिति, तदपि मन्दम् । उक्तन्यायेन तत्कारणत्वव्यवस्थितौ तद्विरहेऽनुमितिसामग्र्याः एवासिद्धेः ।
केचित्तु ज्ञानद्वयानन्तरमेव तृतीय विशिष्टज्ञानमुत्पद्यत इति न ब्रूमः, किन्तु व्याप्तिरूपविशेषणज्ञानसम्भवात् तद् द्वितीयज्ञानावसर एव वह्निव्याप्यधृमवानयमिति ज्ञानस्य सम्भवादित्यप्याहुः । न च व्याप्यत्वाज्ञानेऽपि धृमत्वाद्यवच्छेदकग्रहस्योपजीव्यत्वात् स एवानुमितौ कारणमस्तु इति वाच्यम् । अवच्छेदकज्ञानं हि व्याप्यत्वसाक्षात्कारे कारणं, न तु व्याप्यत्वज्ञानमात्रे अवच्छेदकग्रहं विनापि वहिव्याप्यवानयमिति वाक्याद व्याप्यत्वज्ञानदर्शनात् । किञ्चैवमवच्छेदकज्ञानस्यापि कारणता न स्यात् , तत्रापि यदुपजीव्यं तदेव कारणमास्तामित्यस्यापि सुवचत्वात् । एतेन
१. M -अत्रोच्यते, P-ब्रूमः । २. किरणावलीग्रन्थे तूक्तम् (G. O. S.) "तस्माल्लिङ्गत्वोल्लेखि तृतीयलिङ्गदर्शनमास्थेयम्' इति । P.198 । ३. P+M, read वाच्यम् ४. I. O.+MI read (अ) नुमितिमात्रकारणतावच्छेदकः । ५. P reads धूमादिविशिष्ट० । ६. P reads (उ)च्छेदकत्वेन । ७. P+MI drop तृतीयम् । ८. P reads घूमत्वावच्छिन्नग्रहस्य । ९. P reads अवच्छेदकज्ञानं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org