________________
लिङ्गपरामर्शवादः । व्याप्तिस्मरणेऽपि किञ्चित्त्वेन रूपेण पक्षधर्मधूमग्रहे सति यद्व्यतिरेकेण तृतीयलिङ्गपगमर्शव्यतिरेकः तव्यतिरेकेण ममाप्यनुमितिव्यतिरेक इति निरस्तम् ।
यदुक्तं-असन्निकृष्टे धमे विशिष्टज्ञानासम्भव इति तदपि मन्दम् । तथाहि -परेणाऽपि तत्र व्याप्तिविशिष्टपक्षधर्मतीज्ञानमुत्पद्यते इति स्वी. कत्तव्यम् । अन्यथा स धृमो वह्निव्याप्य इति व्यवहारो न स्यादिति । तस्मादुभयवादिसमाधेयमेतत् किं निष्टङ्कनेन । तथापि सुहृद्भावेन कि तत्र कारणमिति बषे तदा शणु-ज्ञानान्तरोपनीते ध्रमे संयुक्तसमवेतलक्षणया प्रत्यासत्या ज्ञानरूपया 'मन एव तत्र कारणम् । न च बहिर्विशेष्यके प्रत्यये मनसो न 'स्वातन्त्रयमतिप्रसङ्गादिति वाच्यम् । ज्ञानान्तरोपनयस्यैव नियामकत्वात् । न च विशेषणतया प्रत्यासत्त्या विशेषणमेव भासते इति वाच्यम् । इह भूतले घटाभाव इत्यत्राभावविशेष्यकस्य प्रत्ययस्य दर्शनात् । जम्बीरस्य रूपरसाविति सर्वसाधारणप्रत्ययाच्च ।
न चैवमनुमित्युच्छेदः सर्वत्र ज्ञानान्तरोपनीतस्य वह्नेर्भानसम्भवादिति वाच्यम् । न हि ज्ञानान्तरोपनीते भानेऽनुमितिव्यवहारोऽ तिप्रसङ्गात् । न हि मनोजन्यतामात्रेण मानसत्वं किन्तु असाधारणकारणान्तरनिरपेक्षमनोजन्यत्वेन । न चानुमित्यादौ तथा । परामर्शादेरसाधारणस्य कारणस्यापेक्षानियमात्" । यद्वाऽनुमानादेव तत्र परामर्श उत्पद्यते, न चानवस्था. दोषः, कचित् स्मृतावेव विश्रान्तेः ।
___ अन्ये तु परामर्शे पक्षविशेष्यकत्वमतन्त्रमेव । किन्तु पक्षवृत्तेर्विशेव्यस्य व्याप्यत्वं गृह्यते यत्र तत्रानुमितिरुत्पद्यते । एवम्भूतश्च तत्र'' परामर्शः, पक्षवृत्तिर्वतिव्याप्य'" इति । अयमप्यनुमितिरूप एव । अत्र धूमत्वमेव लिङ्गं धूमत्वस्य वह्निव्याप्यव्याप्यत्वं व्यक्त्यन्तरसन्निकर्षात् गृह्यते । असन्निकृष्ट पर्वतवृत्तिधमसम्बन्धितापि प्रत्यक्षेणैव गृह्यते । तस्मात् प्रत्यक्षरूपादेव परामर्शात्पर्वतत्तिः स धूमो वह्निव्याप्य इति अनुमितिरूपः परामर्शो जायते । तस्मात् परामर्शात् पर्वतो वह्निमानित्यनुमितिरुत्पद्यते
१. M, reads ०परामर्शस्य व्यतिरेकः । २. P drops पक्षधर्मता । ३. P reads वहिव्याप्तः स धूम इति । ४. P adds यदि here । ५. P adds वा here । ६. P reads मनसोऽस्वातन्त्रयम् । ७. P reads विशेषणलक्षणया प्रत्यासत्त्या । ८. P reads ज्ञानान्तरोपनीतभानेऽनुमितिव्यवहारे । ९. PI+I. O. rad कारणनिरपेक्ष-। १०. Mreads अपेक्षितत्वात् । ११. Pn drops तत्र । १२. P adds धूम here | १३. P reads वहिव्याप्यत्वं । १४. P+I.O. read गृहीतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org