________________
દૃષ્ટ
इति न किञ्चिदनुपपन्नमित्याहुः ।
यत्तु केवलव्यतिरेकानुपपत्तिरुक्ता तदपि मन्दम् । तथाहि -तत्र व्यतिरेकद्वयसहचारेणान्वयव्याप्तिरेव गृह्यते इति । तद्विशिष्टं च पृथिवीत्वं पक्षे गृते । व्याप्तिश्च न साध्य सामानाधिकरण्यान्तर्भावेन येन फलाभावः । सर्वं चैतद्व्यतिरेकस्थले स्फुटं भविष्यति ।
अन्ये तु तद्विशिष्टपरामर्शस्यानुमितिकारणत्वे विनिगमनामाहुः, इयं धूमव्यक्तिर्वह्निव्याप्या न वेति संशये विपर्यये च तावदनुमितिर्नोत्पद्यत इत्यविवादम् । तथा च इयं वह्निव्याप्येति ज्ञानेऽनुमितिरुत्पद्यत इति वक्तव्यम् । न च किमर्थं वक्तव्यं, संशयविपर्ययाभाव एव तत्र कारणमास्तामिति वाच्यम् । तावदभावापेक्षया विशिष्टपरामर्शस्य कारणFaraara | विनिगमनाभावेन उभयोः कारणतासम्भवात् । न च सर्वोपसंहारेण व्याप्तिग्रहानन्तरमियं धूमव्यक्तिर्वह्निव्याप्या न वा, न व्याप्येति संशयविपर्ययासम्भवः इति वाच्यम् । सामान्यनिश्चयस्य सामान्यसंशयविपर्यय प्रतिबन्धकत्वात् । विशेष संशय विपर्यययोर्विशेषनिश्चयनिवर्त्तनीयत्वात् । किञ्च यत्संशयो यत्प्रतिबन्धको भवति तनिश्चयस्तस्य कारणं भवतीति सामान्यतः सिद्धम् । अत्रापि पक्षधर्मस्य व्याप्यत्वसन्देहादनुमितिर्नोत्पद्यते इत्यवश्यं तत्र पक्षधर्मस्य व्याप्यत्वप्रकारकनिश्वयः कारणं वक्तव्यमिति ।
किं च पर्वतो वह्निव्याप्यवानयमिति शब्दज्ञानानन्तरं वह्नयनुमितिरुत्पद्यते इत्यविवादम् । न च तत्र व्याप्यत्वावच्छेदकः प्रकारो भासत इति अवश्यं पक्षधर्मस्य व्याप्यत्वज्ञानमनुसरणीयम् । न च तत्र व्याप्यस्य व्याप्यत्वमेवावच्छेदकः प्रकारो भासत इति वाच्यम् । यद् वह्निव्याप्यवद् भवति तद्वह्निमद् भवतीत्यवश्य मवच्छेदकरूपाया अपरव्याप्तेर्भाने प्रमाणाभावात् किन्तु तत्रावच्छेद्यरूपैव धूमे वह्निव्याप्तिर्भासत इति । किञ्च तद्भाने वाडवच्छेदकं व्याप्यत्वमेव भाति तदा सर्वत्र तदेवास्त्विति तृतीयलिङ्गपरामर्शप्रकरणं समाप्तम् ॥१७॥ ॥ ॥
न्यायसिद्धान्तदीपे
१. P+Mg read व्यतिरेकिण्यनुपपत्तिरुक्ता तदपि न भद्रम् । २. P reads संशये विपर्ययाभावः । ३. P+Mg read व्याप्यत्वग्रहा० । ४. P reads • प्रतिरोधकत्वात् । ५. Mg reads वक्तव्यमिति । ६. Pn reads नोपपद्यते । ७. P reads व्याप्यत्वस्य व्याप्तिर्व्याप्यत्वावच्छेदकः प्रकारः, I. O reads व्याप्यत्वं व्याप्यत्वमेवावच्छेदकः प्रकारः । ८. Padds इति लिङ्गपरामर्शवादः, I O reads इति तृतीयलिङ्गपरामर्शः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org