SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (१८) व्याप्तिवादः । ननु केयं व्याप्तिः । अनौपाधिकत्वं वा स्वाभाविकत्वं वा अव्यभिचारित्वं वा कार्त्स्न्येन सम्बन्धो वा, साधनसमानाधिकरण यावद्धर्मसमानाधिकरणसाध्य सामानाधिकरण्यं वा, विशिष्टवैशिष्टचं वा, तादात्म्यं वा, कार्यकार णभावो वा अविनाभावो वा निमित्तनैमित्तिकत्वं वा, अन्योन्या भावविशेषो वा, यावत्साध्यव्यापकव्याप्यत्वं वा, साध्यव्यापकव्याप्यत्वं वा, साधनात्यन्ताभाव सामानाधिकरण्यव्याप्यात्यन्ताभावप्रतियोगिसाध्य सामानाधिकरण्यं वा, साध्याभावव्यापकाभावप्रतियोगिसाधनसामानाधिकरण्यं वी, सम्बन्धमात्रं वाऽन्यद्वा । न तावदाद्यः । किं तदनौपाधिकत्वम् । उपाध्यजन्यत्वं वा उपाधिरहितत्वं वा । नाद्यः । धूमे साध्ये वह्नेरपि गमकत्वप्रसङ्गात् । न हि तयोः सम्बन्ध उपाधिना जन्यते । न द्वितीयः । उपाधिरहितत्वं हि तदुपाधिरहितत्वं वा अन्योपाधिरहितत्वं वा । नाद्यः असम्भवात् । वह्नौ साध्ये धूमस्यापि अगमकत्वप्रसङ्गात्, तदुपाधिरहितत्वस्य तत्र प्रत्येतुमशक्यत्वात् । तदुपाधिप्रतीतौ च सोपाधित्वापत्तेः । न द्वितीयः । धूमस्यापि कचिदुपाधित्वेन तद्विरहा सम्भवात् । उपाधिनिर्वचनेऽन्योन्याश्रयप्रसङ्गात् । नापि द्वितीयः । स्वाभाविकत्वं हि स्वभावजन्यत्वं वा स्वभाव एव वा । स्वभावोऽपि स्वरूपं वा स्वधर्मो वा । नाद्योऽसम्भवात् । न हि कश्चित् स्वात्मना स्वधर्मेण वा जन्यते । नेतरो व्यभिचारिसाधारण्यांत् । तत्स्वभावस्यापि स्वभावत्वात् । नापि तृतीयः । अव्यभिचारित्वं हि व्यभिचारशून्यत्वं विवक्षितम् । व्यभिचारश्च साध्यात्यन्ताभाव सामानाधिकरण्यमेव । तच्च केवलान्वयिनि १. P+I. O. rcad विशिष्टे वैशिष्टयं वा । • Preads साध्यव्याप्यत्वं वा । ३. I. O.+Mg read साधनात्यन्ताभावसमानाधिकरणव्याप्य० । ४. P wrongly inserts here : साधनाभावव्यापकाभावप्रतियोगित्वं वा, I. O reads साधनाभावव्यापकाभावप्रतियोगिसामानाधिकरण्यं वा शेषानन्त however supports the reading accepted in the text above ५ P reads सोपाधिकतापत्तेः । ६. P reads तद्विरहस्यासम्भवात् । ७ P drops तत्स्वभावस्यापि स्वभावत्वात् । ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002636
Book TitleNyayasiddhantadipa
Original Sutra AuthorShashadhar
AuthorBimal Krishna Matilal
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages270
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy