________________
न्यायसिद्धान्तदीपे न सम्भवति । तत्र साध्यात्यन्ताभावाप्रसिद्धः । संयोगाद्यव्याप्यवृत्तौ च साध्ये साध्यात्यन्ताभावसामानाधिकरण्येऽपि द्रव्यत्वस्य व्याप्तेरिष्यमाणत्वात् । किन्च व्यभिचारस्य साध्यनिर्वचनाधीननिर्वचनत्वेन साध्यस्य च व्यापकत्वेनान्योन्याश्रयात् ।
नापि चतुर्थः । कात्स्न्येन हि सामस्त्येन प्रकारेण सम्बन्धी विवक्षितः। न च सामस्त्य सम्बन्धघटकः प्रकारः । समस्तव्यक्तिगर्भस्य सम्बन्धस्याभावात् । प्रत्येकं तथात्वे सामस्त्याभावात् । व्यभिचारिसाधारण्यात् पक्षान्तरप्रवेशात् ।
नापि पञ्चमः । साधनसमानाधिकरणयावद्धर्मसामानाधिकरण्यं हि किश्चित्साध्यव्यक्तेर्वाऽभिधित्सितं सकलसाधनसमानाधिकरणयावद्धर्मसामानाधिकरण्यं सकलसाध्यव्यक्तेर्वा अभिप्रेतं यकिश्चितसाधनव्यक्तिसमानाधिकरणयावद्धर्मसामानाधिकरण्यं सकलसाध्यव्यक्तेर्वा विवक्षितं, साधनत्वावच्छेदकधर्मवद् यत्किञ्चिद्व्यक्तिसमानाधिकरणयावद्धर्मसमानाधिकरणमात्रवृत्तिसाध्यत्वावच्छेदकधर्मवद्व्यक्तिसामानाधिकरण्यं वा, यावत्साधनसमानाधिकरणयावद्धर्मसमानाधिकरणयकिश्चित्साध्यव्यक्तिसामान्या(ना)धिकरण्यं वा। नाघो रासभसाधारण्यात । न द्वितीयः असम्भवात् । न हि सकलसाधनसमानाधिकरणः धर्मः सर्वाः साध्यव्यक्तयः समानाधिकरणाः । अत एव न तृतीयः । न चतुर्थः । अधिकवृत्तिसाध्ये तदभावात् । न पञ्चमः । एकव्यक्तिके यावदर्थाभावाद् । व्याप्तिग्रहे सिद्धसाधनप्रसङ्गाच्च ।
नापि षष्ठः । उक्तरीत्या दूषितत्वात् । यथाकथञ्चित् सम्भवे एतावदज्ञायमानेऽप्यनुमितेर्जायमानत्वात् गौरवकरत्वाच्च । अन्यथोपपत्तेर्वक्ष्यमाणत्वाच्च ।
नापि सप्तमः । अव्यापकत्वात् । अभेदेन गम्यगमकभावानुपपत्तेश्च । नाप्यष्टमः । अकार्यकारणभूतयोरपि व्याप्यव्यापकभावात् ।
नापि नवमः । अविनाभावो हि साध्यं विना हेत्वभावो विवक्षितः। तथा च केवलान्वयिन्यप्रसिद्धः ।
१. P+I. O. read (अ)सिद्धेः ।२. P drops दव्यत्वस्य । ३. P+MA drop समानाधिकरणयत्किञ्चित्साध्यव्यक्ति० । ४. P reads रासभादिसाधारण्यात् । ५. M, + I. O. read समानाधिकरणे धर्मे । ६. P+I. O. read अकार्यकारणयोरपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org