________________
व्याप्तिवादः ।
नापि दशमः । निमित्तनैमित्तिकत्वं हि कार्यकारणभावो वा समानावच्छेदकत्वं वा । नाद्यः । कार्यकारणभावप्रवेशात्, न द्वितीयः अवच्छेदकत्वं हि सामानाधिकरण्यमात्रं वा नियत सामानाधिकरण्यं वा । नाधो व्यभिचारिसाधारण्यात्, न द्वितीयोऽन्योन्याश्रयात् । यथाकथश्चिदवच्छेदकनिर्वचनेऽपि वच्छेदकत्वान्तर्भावेन व्यापकत्वव्याप्यत्वे स्यातां तथा च केवलधूमस्य व्याप्यत्वं केवलस्य वह्नेर्व्यापकत्वं च न स्यात् ।
Sararaaः । तथाविधान्योन्याभावे प्रमाणाभावात् । अव्यभिचारादेव तद्बोधकत्वेऽव्यभिचारस्योपजीव्यत्वे वा तस्यैव व्याप्तित्वस्वीकारस्योचितत्वात् । तदेवास्त्विति चेद्, न तद्दृषितत्वात् ।
नापि द्वादशः । आत्माश्रयात् । साध्यव्यापकपदेन साध्यसमनियतविवक्षायां शेषवैयर्थ्यात् । न च तदेवास्तु इति वाच्यं, साध्यव्याप्यस्यैव तथात्वे शेषवैयर्थ्यात् ।
नापि त्रयोदशः । आत्माश्रयात् । शेषवैयर्थ्याच्च ।
नापि चतुर्दशः । अव्याप्यवृत्तौ साध्ये केवलान्वयिनि चाभावात् । अत एव नापि पञ्चदशः ।
नापि षोडशः । सम्बन्धमात्रज्ञानस्यानुमित्यजनकत्वात् । व्याप्तिज्ञानस्य येन रूपेणानुमितिकारणत्वं तस्येह निरूप्यमाणत्वात् । नापि सम्बन्धत्वं संयोगत्वाद्यनुगतमस्ति ।
नापि सप्तदशः । तदनिर्वचनात् । अखण्ड एव व्याप्तिपदार्थ इति चेन्न, नियामकाभावात् । नियामकसद्भावे तेनैवान्यथासिद्धेः । अन्यथोपपत्तेर्वक्ष्यमाणत्वाच्च ।
विनाभाव एव व्याप्तिः । न च केवलान्वयिन्यव्याप्तिः साधनसमानाधिकरणव्याप्यवृत्त्यत्यन्ताभावाप्रतियोगिसाध्यकत्वस्य तदर्थत्वात् । अन्योन्याभावेन वा तन्निर्वचनं, तथाहि साधनसमानाधिकरणान्योन्याभावाप्रतियोगिसाध्यवत्त्वं वा, साधनत्वाभिमतसामानाधिकरण्यान्योन्याभावप्रतियोगितानवच्छेदकसाध्यवत्त्वं वा तदर्थ इति । तदपि न । व्याप्तिमन्तरेण प्रतियोगित्वस्यैव निर्वक्तुमशक्यत्वात् । साधनत्वाभिमतसाध्यत्वाभिमतयोरपि व्याप्तिपदार्थत्वप्रसङ्गात् । कथं वा व्यर्थविशेषणे नातिप्रसङ्गः ।
६७
१. P reads नान्त्यः | २. M1+ Mg drop व्याप्यवृत्ति here । ३. M, drops एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org