________________
६८
न्यायसिद्धान्तदीपे तत्र व्याप्तेरनभ्युपगमात् । अत्यन्ताभावाऽन्योन्याभावाभ्यां निरुक्तयोमध्ये का वा व्याप्तिः । न तावद् द्वितयमपि । अननुगमात् । उभयसाधारणस्याभावात् । तस्मादविचारितसुन्दर एवं व्याप्तिपदार्थ इति ॥छ।। - अत्रोच्यते । प्रतियोगित्वं तावदभावविरहत्वमेवें । अभावत्वं सत्तानधिकरणत्वमेव । यद्वा विरोधित्वमेव प्रतियोगित्वं, विरोधित्वं च यद् येन रूपेण न प्रमीयते तत्तेन सह विरुद्धं, नचाभावे साध्ये अतिव्याप्तिः । अत्रापि विरोधित्वस्य विद्यमानत्वात् । न चाननुगमः । लाघवेनान्योन्याभावान्तर्भावेन व्याप्ते रिष्यमाणत्वात् । तृणारणिमणिन्यायेन अत्र समाधानमित्यप्याहुः ।
न चाभिमतपदान्तर्भावेन व्याप्तिप्रसङ्गे यत् यत्समानाधिकरणान्योऽन्याभावप्रतियोगितावच्छेदकं न भवति तत् तव्यापकम् , यत्समानाधिकरणाऽन्योन्याभावप्रतियोगिता येन नावच्छिद्यते तत्तस्य व्याप्यम् । न चाऽत्र सर्वनामखण्डनावतारः। तस्य सकललोकव्यवहारोच्छेदकत्वेनोपेक्षणीयत्वात् । न च व्यर्थविशेषणेऽतिप्रसङ्गः, अत्र व्याप्तेरिष्यमाणत्वात् । न हि तत्र व्याप्तिरेव न वर्त्तते इति व्यर्थविशेषणार्थः, अपि तु तेन विशेषणेन व्याप्तिनावच्छिद्यत इति ।
केचित् तु साध्यात्यन्ताभावासामानाधिकरण्यं व्याप्तिः । न चाकाशादीनामवृत्तीनामपि वह्निव्याप्यत्वाश्रयत्वंप्रसङ्ग इति वाच्यं, तेषां व्याप्यत्वेऽपि दोषाभावात् । ततोऽपि वह्नयनुमितिः स्यादिति चेन्न तेषामपक्षधर्मत्वात् । न च केवलान्वयिन्यव्याप्तिः । तत्र केवलान्वयित्वस्यैव व्याप्तित्वात् । तृणारणिमणिन्यायेन कार्यविशेषस्य कल्पनादित्याहुः ।
अपरे तु साधनव्यापकधर्मावच्छिन्नसाध्यसम्बन्धी व्याप्तिः । एतगाश्चावच्छेदकाभावात् । अवच्छेदकस्य साधनव्यापकताविरहात् । सम्बन्धस्वरूपविरहात् सम्बन्धिविरहात् । अवच्छेदकः समनियत एव । एतदभिप्रायेणोच्यते समनियत एवोपाधिरिति । एवम्भूतोपाधिना सोपाधि
9. P drops ari 8. P+M, read OTOTFJAF9191917 1 R. P reads एवायम् । १. P reads अभावविरोधित्वमेव, Pn. reads अभावरहितत्वमेव । ५. P reads तत्रापि । ६. P reads (अत्यन्ताभावप्रतियोगि न भवति । ७. P+ M. drop अवृत्तीनाम् । ८.Preads व्याप्त्याश्रयत्वप्रसङ्गः। ९. P reads व्यापकताविरोधात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org