________________
लिङ्गपरामर्शवादः। विशेष्यके ज्ञाने मनसः सर्वथाऽसामर्थ्यात् । नापि संस्कारः पूर्व वह्निव्याप्यधूमवत्वेनाऽननुभवात् । नाप्यानुमानिक एवं परामर्शोऽनवस्थापातात् ।
किश्च केवलव्यतिरेक्यनुमानवादिना भवता कथं तत्र तृतीयलिङ्गपरामर्शः समर्थनीयः । इतरभेदव्याप्यत्वस्य पृथिवीत्वेऽग्रहात् , ग्रहे वा साध्यहेतुनियतसामानाधिकरण्यस्य पृथिव्यां व्याप्तिग्राहकेणैव परिच्छिन्नत्वात् किमधिकमनुमेयं स्यात् । व्यतिरेकव्याप्तिग्रहेणैव त्वदर्शने इतरभेदानुमितेः स्वीकृतत्वाच्च ।
ननु तृतीयलिङ्गपरामर्शमस्वीकुर्वता त्वया अनुमितित्वावच्छिन्नं कार्य प्रति किमनुगतं कारणं वाच्यम् , न तावद्धमवत्वादिविशिष्टपक्षरामर्शोऽननुगमात् । नापि व्याप्यत्वावच्छेदकप्रकारकतद्विशिष्टपरामर्शः, उपजीव्यत्वेन व्याप्यत्वस्यैव तथात्वेनाङ्गीकारार्हत्वादिति । मैवम् । अनुमितित्वावच्छिन्नं प्रति व्याप्तिज्ञानस्यैव कारणत्वात् । धूमादिविशिष्टपक्षज्ञानस्य अनुमितिविशेष एव प्रयोजकत्वात् । यद्वा यद् वस्तुगत्या व्याप्यं तद्विशिष्टज्ञानस्यैवानुमितिमात्रं प्रति प्रयोजकत्वात् । न च यद्वस्तुगया व्याप्यं तस्य किंचित्त्वादिना रूपेण ज्ञानादनुमितिः स्यादिति वाच्यम् । तथाहि-किंरूपानुमितिस्तत्रापाद्यते । किं धूमादिलिङ्गविशेषोपहिता लिङ्गसामान्योपहिता वा । नाद्यः। धमत्वादिप्रकारकज्ञानादेव तदुपपत्तेः । न द्वितीयः। तथाभूताया अनुमितेरेवासिद्धेः।
किश्च यव्यतिरेकात् तृतीयलिङ्गपरामर्शः तत्र नोत्पद्यते तदव्यतिरेकादेवानुमितिव्यतिरेकोपपत्तेः । नन्वनुपपन्नमेतत् । यद्वस्तुगत्या वह्निव्याप्यं तद्विशिष्टज्ञानात्" अनुमितिर्भविष्यतीति । तथाहि-यद्वस्तुगत्या वह्निव्याप्यं नास्ति धूलिपटलादिकं तद्विशिष्टज्ञानादप्यनुमितिदर्शनादिति । मैवम् । मया तत्रानुमितेरेवानङ्गीकारात् । अङ्गीकारे वा यद्वस्तुगत्या वह्निव्याप्यं तद्भानादेवानुमित्युत्पत्तेः। तस्मात् सर्वथानुपपन्नो लिङ्गपरामर्शस्य चरमकारणताभिमानो नैयायिकानामिति ॥छ।
१. P reads स । २. Ms drops तृतीय । ३. Pn reads स्वीकाराच्च । ४. P reads धूमत्वादि० । ५. P reads पक्षधर्मपरामर्शः, Mg reads विशिष्टपरामर्शः । ६. Mg adds अनुगतस्य । ७. P reads धूमत्वादिविशिष्टपक्षधर्मज्ञानस्य, Pn reads विशिष्टपक्षज्ञानस्य । ८. P reads वस्तुतः in both places । ९. P reads तथाभतान मितेः । १०.P reads नोत्पद्यते तद्वयतिरेकस्योपपत्ते, I.O. reads अनुमितिव्यतिरे. कस्योपपत्तेः । ११. P reads विशिष्टपक्षज्ञानात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org