________________
(१७) लिङ्गपरामर्शवादः ।
इहानुमितौ लिङ्गस्य पेक्षधर्मताप्रकारकं ज्ञानं कारणमित्युभयवादिसिद्धम् । तस्य ज्ञानस्य व्याप्तिप्रकारकत्वेनानुमितिकारणत्वं न वा, व्याप्तिविशिष्टपचधर्मताविशिष्टज्ञानमनुमितिकारण न वेति विप्रतिपत्तिसङ्क्षेपः । तत्र परेषामयमाशयः । विशिष्टज्ञानस्य किमन्वयव्यतिरेकाभ्यामनुमितिकारणत्यमन्यथा वा । न तावदाद्यः । अनुमितिपूर्वसमये व्याप्तिज्ञानपक्षधर्मताज्ञानव्यतिरिक्तस्य विशिष्टज्ञानस्यैवासिद्धेः । नन्वस्तु द्वितीयैः । तथाहि व्याप्तिस्मरणानन्तरं किञ्चित्वादिना रूपेण पक्षधर्मधूमज्ञानेऽपि न तावद् वह्नयनुमितिरुत्पद्यते तथा चातुमित्युत्पत्तिपूर्वकाले रूपान्तरेण पक्षधर्मधूमज्ञानं कारणं वक्तव्यं तच्च प्रकारान्तरं पारिशेष्याद्' व्याप्यत्वमेवेति सिद्धं विशिष्टज्ञानमिति चेत्, न किञ्चिच्चादिव्यतिरिक्तस्य धूमत्वादेरेव सम्भवे पारिशेष्यस्योपक्षीणत्वात् । तथाहि प्रथमं व्याप्तेः स्मरणमनुभवो वा अनन्तरं व्याप्यत्वावच्छेदकधूमत्वादिधर्म प्रकारकपक्षनिष्ठधूमज्ञानम् । अनन्तरमव्यव हितसमय एवानुमितिरप्रत्यूहमुत्पद्यत एवेति । एवमप्युपपत्तौ अन्तरा विशिष्टज्ञानकल्पने तत्कारणत्वे च गौरवमेव बाधकम् । न च विशिष्टज्ञानसामग्रीबलात् तत्कल्पनं युक्तं, कार्यासिद्धौ सामय्या अप्यसिद्धेः । सिद्धौ वाऽनुमितिसामय्या बाधितत्वात् । न चानुमितिसामय्यपेक्षया प्रत्यक्षसामग्री बलवतीति वाच्यम् । तृतीयलिङ्गपरामर्शधारावहनप्रसङ्गात् तदनुव्यवसायप्रसङ्गाच्च । न चानुमितिसामय्या बलवत्वेनानुमितिधारा वहनप्रसङ्गेनानुमिनोमीत्यनुव्यवसायो न स्यादिति वाच्यं पूर्वसामय्या दत्तफलत्वादे परसामसिद्धसाधनेनानुदयात् । अत एव धूमविशिष्टं पर्वतमुपलभ्य समयान्तरेऽपि व्याप्तिं स्मरतो" वह्नय नुमितिरुत्पद्यते " । न हि तत्र तृतीयलिङ्गपरामर्शसम्भावनाऽपि कारणाभावात् । न हि तत्रेन्द्रियं कारणमसन्निकर्षात् । न च ज्ञानान्तरोपनीते धूमे मानस एव परामर्श इति वाच्यम् । बहिread पचधर्मताज्ञान
१. P reads पक्षधर्मताज्ञानम् कारणम् । २. Mg+I. O. मनुमितिकारणम् । ३. Mg+I. O. read अन्यथानुपपत्त्या । ४ Mg adds पक्षः here । ५. P misses अपि । ६. P reads परिशेषात् and परिशेषस्य । ७. P reads व्यवहितसमये । ८. Pomits तदनुव्यवसायप्रसङ्गाच्च । ९ Pn reads बलवात् । १०. P adds अपि and इति, Pa reads व्याप्तिस्मरणवतोऽपि.
Jain Education International
For Private & Personal Use Only
2
www.jainelibrary.org