SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ योगरूढिवादः । कार्य जनयेताम् | न द्वितीयः । प्रत्येक समुदायसङ्केतप्रतिसन्धानजस्मरणानामेकदासत्वात् । न चैकमेव पङ्कजनिकर्तृत्वपद्मत्वानां स्मरणं तत्र कार्यदर्शनात् कल्प्यत इति युक्तम् । एवमपि हि पङ्कजनिकर्तृपद्मानयनान्वयः' प्रत्येकं स्यात् । न तु विशिष्टवैशिष्टयेन । จ किञ्च प्रत्येकान्वये वाक्यभेदप्रसङ्गः केन वारणीयः । कथं वा न गवादिपदेऽपि योगरूढिः । को हि गमेर्डी सप्तम्यां जनेर्ड इत्यनयोर्विशेषो येनैकत्र रूढिमात्रमपरत्र योगरूढिरिति । अत्राभिधीयते । पङ्कजमानयेति वाक्यात् तावत् पङ्कजनिकर्त्तारं पद्ममानयेति प्रतीतिर्जायत इत्यनुभवसिद्धम् । तत्र पङ्कजपदेन प्रत्येकसमुदायशक्तिप्रतिसन्धान सहकारिवशान्मिलितगोचरमेकमेव स्मरणं जन्यते तत्रासत्तिवशेनै पङ्कपदार्थस्याधारत्वेन जनिपदार्थस्याधेयत्वेन तत्क्रियाकर्तृत्वेन प्रत्ययार्थस्यान्तरङ्गतया पद्मत्वस्यै द्वितयविशिष्टे आनयनस्यैकदैवान्वयः प्रतीयते, न तु पद्मत्वविशिष्टे पङ्कजनिकर्तृत्वं तद्विशिष्टे चानयनमिति प्रतीतिः । यद्वा पङ्कजनिकर्तृत्वानां प्रत्येकपदोपस्थितानां प्रथमतस्तावदन्वयबोधस्तदनन्तरं तेन समं पद्मत्वस्यानन्तरमानयनेनान्वय इत्याद्यूह्यम् । न च पङ्कजपदस्यैकत्वात् कथमेकस्यैवान्वयबोधकत्वमिति वाच्यम् । समुदायापेक्षया हि पङ्कजशब्दस्य पदत्वमवयवापेक्षया तु वाक्यत्वमेव । न च गवादिपदेऽपि योगरूढिः । डोप्रत्ययशक्त्यवधारकन्यायाभावात् । गमेड: इति वचनं यथाकथञ्चिद्व्युत्पत्तिपरं न तु धेन्वादिपदेऽप्येवं स्यात् । जानुदानुभानुशब्दादावावापोद्वापक्रमेण शक्तेः कल्पनात् । यत्र योगार्थीन्वितरूढ्यर्थावबोधस्तत्र सर्वत्र योगरूढिरित्येवं परत्वाद्वा नन्वस्तु रूढिरेव, योगार्थान्वयप्रसङ्गात् । यौगिकार्थबुद्धिरूप सहकारिलाभाद्विशिष्टार्थोपस्थापकत्वं रूढेः योगरूढत्वम्, न तु योगार्थेऽपि समुदाये "शक्तिरिति सर्वमवदातम् ॥ छ ॥ १६॥" न, १. P reads o कर्तृत्वपद्मनामानयनान्वयः । २. P reads अत्र ब्रूमः । ३. P reads (आ) कांक्षादिवशेन । ४. P+I. O. read तत्रैवान्तरं गतया । ५. P reads एतद्वितय० । ६. P misses प्रत्येक पदोपस्थितानाम् । ७. P + Mg drop एकस्यैव । डोप्रत्ययस्य । १०. P reads O read समुदायशक्तिः । ८. P drops हि ond तु । ९P+I. Oread ननु धेन्वादिपदेऽप्येवं स्यात् । न स्यात् । ११. P+I. १२. I. O. reads इति षोडशे वादः, Preads इति योगरूढिवादः । Jain Education International ५९ For Private & Personal Use Only www.jainelibrary.org
SR No.002636
Book TitleNyayasiddhantadipa
Original Sutra AuthorShashadhar
AuthorBimal Krishna Matilal
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages270
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy