________________
न्यायसिद्धान्तदीपे
वाक्यार्थप्रतिपत्तावङ्गत्वमीक्षामहे । तदेव तु नास्ति प्रमाणाभावात् । प्रत्युत तात्पर्यमस्य न ज्ञायते अस्माद्वाक्यादयमर्थस्तावदवगम्यत एवेति' विचिनृत्य परावृत्य कुत्राऽस्य तात्पर्यमिति पृच्छति प्रयोज्यवृद्ध इति । न च लक्षणास्थले तात्पर्यग्रहस्य कारणत्वावधारणात् अन्यत्रापि तत्कारणत्वकल्पनमिति वाच्यम् । तत्र हि पदार्थोंपस्थित्यनुकूलत्वं तात्पर्यज्ञानस्य तावता विना तत्र पदार्थोपस्थितिरेव न भवति, न तु वाक्यार्थप्रतिपत्त्यनुकूलत्वम् । अत एव तत्र तात्पर्य पदार्थमात्रे न तु वाक्यार्थे । तथा च पुरुषान्तरोदीरितकलायपदेन स्वयं स्मृतेन वा पचतीत्यस्य समभिव्याहारप्रतिसन्धाने भवत्येव शाब्दबोधः । यथा हि नानापुरुषेण खण्डशः क्रियमाणे श्लोके इति युक्तमुत्पश्यामः ।
५८
किञ्च द्वारं पिधेहीत्यत्र शब्दद्वारान्वयबोधस्य तदुपस्थापकपदजन्यत्वदर्शनादन्यत्रापि तथा कल्प्यते लाघवात् । अपि च । विभक्तिविशेषसमभिव्याहारविशेषमासाद्यैव परं पदानामनुभावकत्वम् । तथैवाकांक्षादिदर्शनात् अन्यथा गामानयेत्यत्रेव गौः कर्मत्वमानयनं कृतिरित्यत्राप्यन्वयबोधप्रसङ्गात् । एवं सर्वपदार्थानामेव पदोपस्थापितत्वं तन्त्रम् । प्रमाणवतो गौरवस्यापि न्याय्यत्वादिति न्यायात् । यद्वा पदोपस्थापितपदार्थत्वमेव तन्त्रम् । न तु सर्वत्वं तन्त्र, किन्तु सङ्कोचकाभावात् पदार्थमात्रमादायैव विश्राम्यतीत्यलमतिपीडया । तस्मात् पदाध्याहार एव युक्तो नार्थाध्याहार इति ।
तस्मात् पङ्कजशब्दः पद्मत्वे शक्तः वृत्त्यन्तरविरहे सति व्युत्पन्नं प्रति नियमतः पद्मत्वावच्छिन्नप्रतियोगिकान्वयबोधजनक शब्दत्वात् । पद्मशब्दवदिति । गृहविवादस्तु पङ्कजमानयेत्यत्र पङ्कजशब्देन वाक्यार्थज्ञानानुकूलं कीदृक् पदार्थज्ञानं जन्यते । पद्मः पङ्कजनिकर्तेत्याकारमिति चेत् । एतत् किम् अनुभवरूपं स्मरणरूपं वा । नाद्यः । सामग्रीविरोधात् । पेङ्कजनिकर्तृत्वाशे ह्यनुभवसामग्री पद्मत्वांशे स्मरणसामग्री, ते च मिलित्वा कथं तरकारणत्वमिति । ३. M 1 अन्वयबोधः । ५. I. O. adds इति युक्तिमत् ।
१. P reads तावद् गम्यत इति । २. P reads reads पदार्थमात्रप्रत्यये । ४. P+Mg, I. O read reads पठ्यमाने । ६. P reads शब्दादन्वयबोधस्य । ७. P 2. The masculine gender in : is explained in a marginal note of Mg as अर्द्धर्चादिपाठात् पुंस्त्वम् शेषानन्त supports the same ९. P adds तथाहि ।
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org