SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ योगरूढिवादः । बन्धकत्वम् पङ्कपदोत्तरजशब्दस्यैवे वा । न च पङ्कपदोत्तरजशब्देनैवै प्रतिबन्धात् पद्मत्वोपस्थितिस्तवापि न स्यादिति वाच्यम् । कार्यदर्शनेन कुमुदादावेव प्रतिबन्धकत्वकल्पनात् । एवमप्युपपत्तौ शक्तिकल्पने गौरवात् । अवयवशक्तावेव वा कौच्यं कल्प्यताम् । न च घटपटादावपि घटत्वादेः प्रयोगोपाधित्वप्रसक्तौ प्रकारे क्वचिदपि शक्तिर्न स्यादिति वाच्यम् । घटपदीनिर्विकल्पकोदयप्रसङ्गात् । ननु घटमानयेत्युत्तमवृद्धवाक्यात् प्रयोज्यप्रवृत्तिमुपलभमानो बालस्तस्य घटकर्मकानयनानुभवमनुमिनोति । तत्र चावापोद्वापक्रमेण घटत्वप्रकारकघटान्वयानुभवजनकत्वं घटपदस्यावधारयति । एवमानयपदेऽपि । तथा पङ्कजमानयेति वृद्धवाक्यादपि प्रयोज्यवृद्धस्य पझे प्रवृत्त्युपलम्भात् पद्मत्वप्रकारकपद्मान्वयबोधजनकत्वं पङ्कजपदस्यावधारयति । न च तत्प्रकारकपद्मान्वयानुभवजनकत्वात् तत्प्रकारकतया वा तत्स्मरणजनकत्वादन्यत्पदस्य शक्तत्वं नामेति । मैवम् । न हि यद्विषयानुभवो येन पदेन जन्यते तत्र तस्यावश्यं शक्तिकल्पनं, संसगांशेऽपि शक्तिकल्पनप्रसङ्गात् । न चान्विताऽभिधानवादिनोऽष्टापत्तिः । अनन्यलभ्यशब्दार्थस्य व्यवस्थाप्यत्वात । न च तत्पकारकतद्विषयकानुभवजनकत्वम् एवम्भूतस्मरणजनकत्वं वा शक्तत्वं गङ्गापदादेस्तीरत्वादिप्रकारकतीराधनुभवजनकत्वेन तत्र शक्तिप्रसक्तौ लक्षणामात्रोच्छेदप्रसङ्गात् । तत्प्रकारकतद्विषयकज्ञानजनकत्वाप्रतिसन्धानेऽपि देवदत्तादिपदादसौ बोद्धव्यः इत्यभिप्रायप्रतिसन्धानादप्यर्थोपस्थितेर्दर्शनात् । सर्वत्र तु तत्तदर्थविशेषेऽभिप्रायविशेषविषयत्वमेव वाचकत्वं तत्तत्पदानां शक्तत्वम् । न च पदानुपस्थितस्यापि शाब्दसंसर्गावगमविषयत्वे लक्षणोच्छेदै इति वाच्यम् । प्रकारस्यान्यथोपस्थितस्यापि भानाङ्गीकारात् । १. P reads . जपदस्यैव । २. P+I.O. drop पङ्कपदोत्तरजशब्देनैव । ३. P reads अपि तदा न स्यात् । ४. P reads गौरवप्रसङ्गात् । ५. P reads कोट्या, शेषानन्त explains कौट्य संकोचः। ६. P reads घटपदादेः । ७. P+M, यथा घटमानयेति वृद्धवाक्यात् । ८. P reads वाक्यादपि । ९. P+I.O. read तत्प्रकारकतदन्वय० । १०. P reads तीरादिविषयक. । ११. P misses तत्प्रकारक. १२. P drops वाचकत्वं । १३. P+I. O. read (उ, च्छेदप्रसङ्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002636
Book TitleNyayasiddhantadipa
Original Sutra AuthorShashadhar
AuthorBimal Krishna Matilal
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages270
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy