________________
न्यायसिद्धान्तदीपे कथमन्यथा जलाहरणप्रस्तावे घटमानयेत्युक्ते छिद्रेतरघटत्वेनान्वयबोधः । छिद्रेतरत्वस्याशक्यत्वात् । न चात्र लक्षणा युगपवृत्तिद्वयविरोधात् । न चाजहत्स्वार्था सा शक्याशक्योपग्राहकस्य रूपस्यौनुपस्थितेः।
न च शब्दसम्बन्धमनपेक्ष्य संस्कारमात्रोपस्थितस्य पङ्कजमानयेत्यत्रान्वये पद्मत्वव्यापकानां द्रव्यत्वादीनामन्वयः स्यादिति वाच्यम् । शब्दसम्बन्धोपगमेऽपि संस्कारप्राकटयस्यावश्योपजीव्यत्वात् तदेवास्तु नियामकम् , कृतं शब्दसम्बन्धकल्पनया । न च गङ्गायां घोष इत्यत्रापि संस्कारादेव तीरविशेषप्रतीत्युपपत्तौ न वृत्त्यन्तरकल्पना ज्यायसीति वाच्यम् । गङ्गापदोपादानवैयर्थ्यात् । अशक्यतात्पर्यकत्वस्यैव तत्त्वात् । तस्य च पुरुषेच्छाधीनस्याशक्यनियमत्वात् यद्वा पङ्कजादीनां सामान्यशब्दानां तत्र तत्र विशेष तात्पर्यसहायानामेव विशेषबोधकत्वमस्तु कृतं समुदायशक्तिकल्पनया । कथमन्यथा कदाचिद कुमुदेऽपि प्रयोगो लक्षण येति तव, मम तु मुख्यतयेति महान् विशेषः ।
___ अत्रोच्यते । पङ्कजमानयेति वाक्यश्रवणानन्तरं पद्मानयनं कुर्वतः प्रयोज्यस्यै पद्मानयनानुभवों निश्चीयते । तत्र संस्कारमात्रवशात् पद्मत्वभाने नियमतः कल्प्यमानेऽव्युत्पन्नस्यापि तथाभानप्रसक्तौ किं नियामकमध्यवसितमायुष्मता । दृश्यते चात्र व्युत्पत्तिग्रहापेक्षा । कथमन्यथा प्रत्येक व्युत्पन्नस्य पुंसः पङ्कजमानयेति श्रुतवतोऽपि न पद्मानयनानुभवो यथा समुदाये व्युत्पन्नस्य । कथमन्यथा पद्मादिपदेन पङ्कजपदस्य पर्यायताकीर्तनं कोशकाराणां प्रत्येकाव्युत्पन्नस्य वा कथं पङ्कजपदात्" पद्मत्वप्रतीतिः । न चान्वयप्रतियोगिप्रतियोगितावच्छेदकयोः शब्दानुपस्थितयोः संस्कारप्राबल्यात् शब्दानुभवविषयभावो नियमेन युज्यते । घटविषयप्रबलसंस्कारवशादासादितघटस्मरणस्य घटाव्युत्पन्नस्य घटमानयेति वाक्यश्रवणानन्तरं घटानयनबुद्धिप्रसङ्गात् । न चाकाशादिप्रतिबन्दिग्रहो युक्तः, नियमेन तत्र शब्दसमवायित्वस्यास्फुरणात् । तत्र हि कदाचिदष्टद्रव्य
१. P reads इत्यत्र । २. M1 reads एकरूपस्य । ३. Mg reads तथात्वात् । ४. I. O. reads नियमनत्वात् । ५. P drops विशेषे । ६. P drops शक्तिः । ७. P+I. O. read चेत् । ८. I. O. adds इति पूर्वपक्षसंक्षेपः । ९. P reads प्रयोज्यवृद्धस्य । १०. P reads समुदायव्युत्पन्नस्य । ११. P+I. O. read शब्दात १२. Mg+P read घटगोचर०। १३. P reads शब्दसमवायिकारणत्वस्य स्मरणात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org