________________
(१६) योगरूढिवादः। पङ्कजादिपदानां योग एवेत्येके । रूढिरित्यपरे'। योगरूढिरिति गौतमीयाः । तत्र केवलयोगवादिनामिदमाकूतम् । किमर्थ समुदायशक्तिकल्पनम् । पनत्वप्रतीत्यर्थं वा कुमुदाद्यप्रतीत्यर्थं वा । नाद्यः। संस्कारादेव तदुपस्थितेः । न च शाब्दी ह्याकाङ्क्षा शब्देनैव परिपूर्यत इति न्यायेन प्रकारान्तरोपस्थितस्य न शाब्दानुभवेऽवभासः । अन्यथा कि पचतीत्युक्ते प्रत्यक्षोपस्थितं कलायमादाय कलायं पचतीत्यन्वयबोधप्रसङ्गात् । अत एव पिधेहीत्यत्र द्वारादिपदमध्याहृत्यान्वयबोधो नार्थमिति स्वीकुर्वन्तीति वाच्यम् । पुरुषान्तरेण कलायमित्यभिधाने स्वयं वा स्मर्यमाणे समानत्वात् ।
न च तत्र तथातात्पर्याग्रहादन्वयानवबोध इति वाच्यं प्रत्यक्षोपस्थितेऽपि कलाये समानत्वात् । अत एव पिधेहीत्यत्रार्थाध्याहार एव युक्तो लाघवात, पदाध्याहारेऽपि तदर्थान्वय॑तात्पर्यकत्वस्योपजीव्यत्वात् । अत एव शाब्देऽन्वयबोधे सर्वेषां पदार्थानां पदोपस्थापितत्वं तन्त्रमिति न युक्तिमत् । गौरवप्रसङ्गात् । न च शक्तिं विना "संस्कारादुपस्थितं शाब्दे बोधे नियमेन न भासत इति संप्राप्तम् । आकाशपदादशक्यस्य संस्कारादुपस्थितस्याकाशत्वस्याकाशं द्रव्यमिति शाब्दे बोधेऽन्वयभानाङ्गीकारात् । अन्यथा आकाशादिपदान्निर्विकल्पकोदयप्रसङ्गात् । नापि द्वितीयः। तत्राशक्तेरेव तदप्रतिपत्तेः । न हि घटपदादावपि पटाधप्रतीत्यर्थ शक्तिकल्पनम् । न च योगस्य कुमुदादिसाधारणत्वात् तत्रापि प्रयोगप्रसङ्ग इति वाच्यम् । योगपुरस्कारेणेष्टत्वात् । न हि पङ्कजं शैवालमानय, पङ्कज कुमुदमानयेति प्रयोगं कश्चिदपि बाध्यतया व्यवहरति । अस्तु वा अवयवशक्तावेव पनत्वमशक्यमेव प्रयोगोपाधिः । यथाहि दृतिहरिपदे पशुत्वं यथा वा धेनुपदे गोत्वं शक्त्युपाधिः। तत्र समुदायशक्तेरिव पद्मत्वस्मरणस्य वा कुमुदादिषु प्रयोगप्रति
१. P drops रूढिरित्यपरे. शेषानन्त explains अपरे as भाडाः । २. P reads समुदायकल्पना । ३. M+P read शाम्यति । ४. P reads शाब्देऽनुभवेऽनवभासः । ५. P+l.O.drop किं । ६. P reads (अध्याहार्यान्वयवोधो नार्थमिति । .. P reads तात्पर्यग्रहादन्वयबोधः। ८. Pa reads पदार्थान्वय०। ९. P reads (अ)नुभवे । १०-१० M1 misses this portion |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org