________________
सुवर्णतैजसवादः ।
न च काचादिषु सर्वत्र नैमित्तिकद्रवत्वमुत्पद्यते । अद्रवाणामपि काचादीनां विनाशदर्शनात् । तथा च काचत्वादिनैव परापरभावानुपपत्तिभियान नैमि - त्तिकद्रवत्वव्यवस्थापकजातिसिद्धिरिति । तस्माद्यथा द्रवत्वं पृथिव्यामेवेति न नियमः तथा नैमित्तिकद्रवत्वमपि । किन्तु मृदुत्वादिसहकारिसम्भवादन्यत्रापि न तदुत्पत्तिसम्भावना दण्डवारिता । न सत्प्रतिपक्षताऽपि । अस्य च परमाणावपि सम्भवात् तत्रापि नैमित्तिकद्रवत्वोत्पत्तिर्न विरुद्धेति सङ्क्षेपः । इति सुवर्णप्रकरणम् ॥ छ ॥ १५ ॥ श्री
१. I. O. adds इति पंचदशो वादः, P reads इति सुवर्णतैजसवादः ।
Jain Education International
For Private & Personal Use Only
५३
www.jainelibrary.org