________________
न्यायसिद्धान्तदीपे धिकरणस्य पार्थिवस्य तथाऽनलसंयोगे सति भस्मारम्भकत्वनियमात् । तत्र च बाधकाभावेन सङ्कोचस्यान्याय्यत्वात् । पृथ्वीत्वनियतस्य नैमित्तिकद्रवत्वाश्रयत्वस्य भस्मारम्भकत्वव्याप्यत्वावच्छेदकत्वाच्च पृथिवीत्वस्येव
गन्धवत्त्वे'।
किरुच । पार्थिवत्वकल्पनायां रूपमपि अपरावर्त्तमानमनुपपन्नम् , रूपपरावृत्तौ पृथिवीत्वस्यैव तन्त्रत्वात् । ननु नैमित्तिकद्रवत्वस्य पृथिवीत्वनियतस्य कथमपृथिव्यामुत्पत्तिः। तथात्वे वा वाय्वादावप्युत्पत्तिप्रसङ्गः। रूपवत्वं नियामकमिति चेत् । तर्हि जले तदुत्पत्तिप्रसङ्गः । स्वाभाविकद्रवत्वविरहस्तथेति चेत् । तर्हि आलोकेऽपि तदुत्पत्तिप्रसङ्गः । आलोकादौ तदुत्पत्तिप्रयोजकाभावानोत्पद्यते इति चेत् । तदेव पृथिवीव्यतिरिक्त नास्तीति बमः। तथाच नैमित्तिकद्रवत्वमेव तैजसत्वबाधकमिति । मैवम् । न हि पृथिवीत्वमेव तावन्नैमित्तिकद्रवत्वसमवायिकारणतावच्छेदकं पृथिवीमात्रे तदुत्पत्तिप्रसङ्गात् । नापि घृतत्वादिकम् , परस्परव्यभिचारात् । तस्माद् दृष्टमेव मृदुत्वमदृष्टमेव वा तत्र नियामकं वक्तव्यम् । तच्च पृथिव्यामिवान्यत्रापि न दण्डवारितमिति न पृथिवीत्वव्याप्तनैमित्तिकद्रवत्वमिति' न सत्प्रतिपक्षत्वमपि ।
नन्वस्तु घृतत्वादिव्यापकः सामान्यविशेष एव नैमित्तिकद्रवत्वाश्रयतावच्छेदकः। न च तथाविधसामान्यमप्रामाणिकमिति वाच्यम् । नैमित्तिकद्रवत्वाश्रयत्वस्यैव तत्र तव्यवस्थापकत्वात् । गन्धाश्रयत्वस्येवे पृथिवीत्वे पृथिवीत्वावान्तरसामान्यस्य परमाणुषु असत्त्वात् तेषु नैमित्तिकद्रवत्वानुत्पत्तिप्रसङ्ग इति चेत् । नोत्पद्यताम् । न हि परमाणुद्रवत्वेन पार्थिवे अवयविनि द्रवत्वमुत्पद्यत इति कचित् सिद्धं वर्तते । तस्माद् द्वयणुकादावेव नैमित्तिकद्रवत्वं वर्तते । तथा च घृतत्वादिव्यापक पृथिवीत्वव्याप्यसामान्यविशेष एव नियामक इति कथं न पृथिवीत्वेन व्याप्तिरिति । मैवम् । नैमित्तिकद्रवत्वं न तज्जातिव्यवस्थापकमत्यन्तायोगव्यवच्छेदेन यथा गन्धः पृथिवीत्वे ।
१. P+I.O. drop पृथिवीत्वनियतस्य । २. P reads पृथिवीत्वस्यैव and drops गन्धवत्त्वे । ३. P reads पृथिव्या दिव्यतिरिक्ते । १. P reads पृथिवीत्वव्याप्यं नैमित्तिकद्रवत्वम् । ५. Mi reads गन्धत्वस्यैव । ६. P reads मोत्पद्यताम् । ७. P reads (उत्पाद्यते । ८. P reads अस्ति । ९. P reads तत्र च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org