________________
सुवर्णतैजसवादः । अत्रोच्यते । यत् तावदुक्तम्-पृथिवीतरद्रवत्वाश्रयत्वेन न दाहविरोधित्वम् , किन्तु जलत्वेनैव लाघवात् , तदनुपपन्नम् । शिलातलसम्बद्धस्यापि जलस्य 'दाहप्रतिपक्षत्वप्रसंगात् । तथापि प्रत्यक्षसांसिद्धिकद्रवत्वाश्रयत्वेनैव दाहप्रतिबन्धकत्वमास्तामिति चेत् । न । प्रकृतेऽपि सांसिद्धिकद्रवत्वाश्रयस्य बाधात् । तर्हि जलव्यतिरिक्तस्य सांसिद्धिकद्रवत्वाश्रयस्य दाहप्रतिपक्षत्वाभावात् , जलस्य च बाधात् दाहप्रतिपक्ष एव न सिध्येदिति चेत , न ! तथा सति उपष्टम्भकस्य दाहप्रसङ्गात् । दाहप्रसङ्गभयेन करकावदुपष्टम्भकाभिमतपीतिमगुरुत्वाश्रयेण प्रतिबद्धसांसिद्धिकद्रवत्वम् जलमेव तर्हि सिध्यतु । उपष्टम्भकस्यैव वा तथा स्वभावः कल्प्यताम् येन तथा पार्थित्वेऽपि न दाह इति चेत्, न । प्रथमे कल्पनागौरवात् । तथाहि । तेजसत्वपक्षे नैमित्तिकद्रवत्वम् , अनुद्भूतस्पर्शवत्वं, परप्रकाशकताविरोध्युपष्टम्भकसम्बन्धश्चेति त्रयमेव कल्पनीयम् । जलत्वे अनुभूतस्पर्शवत्वम् अनुभूतस्नेहवत्वं सांसिद्धिकद्रवत्वग्रहविरोध्युपष्टम्भकसम्बन्धः । उद्भूतरूपवत्रवे सति जलस्यानुद्भूतस्पर्शवत्वम् अनुभूतस्नेहवत्वं चेत्याह्यम् । तैजसत्वे तु नादृष्टचरकल्पना उद्भूतरूपानुद्भूतस्पर्शवत्त्वस्य प्रभादेः क्लप्तत्वात् ।।
'वड्रपत्यं प्रथमं हिरण्यम्' इत्यागमसंवादोऽपि तैजसत्वे, न चैवं 'तेजो वै घृतम्' इत्यागमवाक्यात् घृतस्यापि तैजसत्वप्रसङ्गः । अक्ताः शर्करा उपदधातीत्यत्र अक्तत्वस्य द्रवद्रव्यमात्रसाध्यत्वात् द्रवद्रव्यमात्रेण अक्तत्वे प्रसक्तेरन्यद्रव्यव्यावृत्त्यर्थं सर्पिः स्तूयते तेजोवत् पवित्रं घृतं, न तु तैजसत्वे तात्पर्य तव्यवस्थापकबाधेन प्रथम बाधितत्वात् । बाधिते च विषये" श्रुतेस्तात्पर्यकल्पनायामप्रामाण्यप्रसङ्गात् ।
स्मृतौ माषकादिव्यवहारस्तु सुवर्णोपष्टम्भकगुरुत्वेनान्यथासिद्धः । गस्मानारम्भकत्वं तु यथा काचादिमूलपरमाणूनां भस्मध्यणुकारम्भकत्वम् , न तथैतन्मूलपरमाणूनां भस्मद्वयणुकारम्भकत्वं विवक्षितम् । न च पार्थिवविशेष एव भस्मानारम्भकैः कल्पनीय इति द्वितीयपक्षो युक्तः। द्रवत्वा
१.-१. This is missing in M, । २. I. O. reads .दाहप्रतिपक्षवम् । ३. P reads द्रवत्वस्य । ४. P ready द्रवत्वानाश्रयस्य । ५. I.O. reads उपष्टम्भकानाम. Pomits this । ६. M omits .सांसिद्धिक०। ७-७. This is miss. ing in M, । ८. P reads दृष्टत्वात् । ९. Ma reads जुहोति ।१०. P reads बाधितेऽर्थे । ११. P reads तथा instead of भस्मानारम्भकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org