________________
न्यायसिद्धान्तदीपे वागीश्वरस्तुं सुवर्णमपार्थिवम्' तथाविधानलसंयोगे सति भस्मानारम्भकत्वादित्याह । तदपि तुच्छम् । घटेन व्यभिचारात् । द्रुतत्वेन विशेषणीयमिति चेत् , न, लाक्षादिना व्यभिचारात् । न ह्ये ते नात्यन्तानलसंयोगेन भस्मारभ्यते, किन्तु तद्विनाशे सति द्वयणुकादिप्रकमेण तत्र भस्मोत्पद्यते । अन्यथा भस्मनि जतुत्वोपपत्तेः उपष्टम्भकेन तद्वयभिचाराच्च ।
नन्वतिचिरानलसंयोगे पीतिमगुरुत्वविशिष्टमुपष्टम्भकाभिमतं पार्थिवं द्रवीभावेऽप्यभस्मीभूतमनुभूयते । अतस्तत्रापार्थिवं द्रवत्वाधिकरणं दाहप्रतिपः क्षमनुमीयते । क्षीरादेरतितरां कथ्यमानस्य जलनिक्षिप्तस्य दाहप्रतिबन्धदर्शनात् । तथा च यदेवापरावर्तमानरूपं द्रवीभूत मूषोदरवर्त्ति प्रतीयते तदेवापार्थिवं कल्प्यताम् । पार्थिवत्वे च दाहप्रतिपक्षताविरोधात् । तच्च स्नेहादिविरहिततया जलं न भवति । वायुत्वादिकं तु तस्य रूपवत्त्वादेवाऽ नुपपन्नं, तथा च परिशेषादेव तस्य तैजसत्वमिति ।
__ अस्तु तावदापातरम्यमेतत् । तथापि येन रूपेण दाहप्रतिबन्धकता दृष्टा तद रूपं विशिष्टमेव कल्पयितुमुचितम् । सा च नापार्थिवत्वे सति द्रवत्वेन किन्तु जलत्वेनैव लाघवात् । जलत्वव्यवस्थापकबाधा बाध इति यदि ऋषे तदपि मन्दम्" । अभास्वरापाकजरूपस्य तेव्यवस्थापकस्य प्रत्यक्षसिद्धत्वात् । किञ्च किमत्र तेजस्त्वव्यवस्थापकमुपलब्धवान्", येन तेजस्त्वं कल्पयितुमुद्यतोऽसि । व्यवस्थापकमपि कल्पनीयमिति चेत् । नूनमतिप्रज्ञोऽसि यस्त्वं वलसव्यवस्थापकं जलत्वं परिहरसि, कल्पनीयव्यवस्थापकं तेजस्त्वं न परिहरसि । अभास्वरत्वं सुवर्णरूपस्यासिद्धमिति चेत्, न । किं महान्धकारस्थेन सुवर्णेन घटादिकं प्रकाश्यत इत्यपि वक्तुमध्यवसितोऽसि । नैमित्तिकद्रवत्वं जलत्वबाधकमिति चेत् , न, तत् किमेतदेव तत्तेजसत्वबाधकं येन लज्जामपहाय पुनः पुनरभिधत्से । स्नेहशीतस्पर्शविरहात जलत्वविरह इति चेत् , न । तयोरनुद्भूतत्वेनाऽप्युपपत्तेरिति ।
१. P reads गदिवागीश्वरस्तु । २. P reads सुवर्णं न पार्थिवम् । ३. P reads द्रवत्वेन, IO. reads घटरहितत्वेन । ४. P reads (अ)नेन । ५. P reads जतुत्वापत्तेः । ६.
M. reads दाहप्रतिपक्षभूतमनुमेयम् , P reads दाहप्रतिपक्षोऽनुमीयते। ७. P reads निक्षिप्तजलस्य। ८. P drops द्रवीभूतम् । ९. P reads अस्य। १०. Ma+P read तदाध इति चेत् न । ११. P adds भवान् here । १२. P adds a redundant न here. । १३. P reads एवमभिधत्से ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org