________________
(१५) सुवर्णतैजसवादः । सुवर्णस्य तैजसत्वे किं मानम् । सुवर्ण तैजसम् , अत्यन्तानलसंयोगे सति अनुच्छिद्यमानरूपाधिकरणत्वात् सौरालोकवदित्यनुमानमत्रेति चेत्, न । सुवर्णपदेन किं' पक्षत्वेनाभिमतम्', अत्यन्तानलसंयोगे सति अनुच्छिद्यमानरूपाधिकरणमिति चेत् , न । तस्यापि सौरालोकादिव्यावृत्तस्यासिद्धेः । तत्र च सिद्धसाधनात् । उपष्टम्भकसाधारण्येन तत्र बाधात् । उपष्टम्भकसौरालोकादिव्यतिरिक्तपक्षतावच्छेदकस्याभावात् ।
किं चाऽनुच्छिद्यमानरूपाधिकरणत्वं विवक्षितम् । अत्यन्तानलसंयोगाविनाश्यरूपाधिकरणत्वं वा, तस्मिन् सति अपरावर्त्तमानरूपाधिकरणत्वं वा । नाद्यः । स्वरूपासिद्धत्वात् । तथाहि । मूषानिक्षिप्तसुवर्णस्य तथाविधानलसंयोगे सति स्वरूपमेव नानुवर्तते किं पुना रूपम् । न द्वितीयः। जलेन व्यभिचारात् । उपष्टम्भकाभिमते गतत्वाच्च । नैमित्तिकद्रवत्वाधिकरणत्वमिति हेतुरिति चेत् । न । अन्वयित्वे सहचाराभावात् । व्यतिरेकित्वे च घृतेन विरोधात् । तेजो वै घृतमित्यागमबलात् घृतं तैजसमेवेति न विरोध:-इति चेत् , न । तथा सति व्यतिरेकित्वाभात् तत्तैजसत्वस्य च निराकरिष्यमाणत्वात् । लाक्षादिना व्यभिचारस्य दुष्परिहरत्वात् । तथाविधानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वं हेतुरिति चेत् , न । तैजसत्वे साध्ये पूर्वदोषानतिवृत्तेः । अनेन हेतुना पृथिवीव्यतिरेकं जलादिव्यतिरेकं च शीतस्पर्शाधनधिकरणत्वेन प्रसाध्यैतदुभयभिन्नत्वे सति रूपवत्त्वात्तैजसत्वसाधनमिति चेत्, न । उपष्टम्भकेन व्यभिचारात् । पृथिवीत्वव्यतिरेकस्य साधयितुमशक्यत्वात् । न च जलव्यतिरेकसाधनं युक्तं, हेतोरसिद्धत्वात् । योग्यातुपलब्ध्या शीतस्पर्शव्यतिरेकर्य सिद्धिरिति यदि, तदानयैवोष्णस्पर्शादिव्यतिरेकसिद्धेः को वारयिता । तथा च तैजसत्वमपि न स्यात् । नैमित्तिकद्रवत्वाधिकरणत्वान्न जलमिति चेत् , न । तत एव तेजोव्यतिरेकसिद्धिसम्भवात् । अन्ततः पृथिवीत्वमेवानेन साधयितुं शक्यते ।
१. P adds हि here । २. P reads अनुमतम् । ३. P reads उपष्टम्भकस्यैवालोकव्यतिरिक्तस्य पक्षता०। ४. P reads मूषानिक्षिप्तस्य सुवर्णस्य । ५. Preads पृथिवीव्यतिरेकस्य । ६. P reads व्यतिरेकसिद्धिः। ५. Po+IO. read सिद्धि को वारयिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org