________________
न्यायसिद्धान्तदीपे
अप्रयोजकत्वाच्च । न च चक्षुश्चाक्षुषसविकल्पकातिरिक्तज्ञानजनकम्, ज्ञानजनकत्वात् घ्राणवदिति निर्विकल्पकसिद्धिरिति वाच्यम् । अतीन्द्रिय तेजोभिन्नत्वस्योपाधित्वात् । एवंविधानुमानानामपि अतिप्रसक्तंतया उपेक्षणीयत्वाच्चेति पूर्वपक्षसङ्क्षेपः ।
"
अत्रोच्यते । जागराद्यज्ञानं स्मरणरूपमनुभवरूपमेव वाऽस्तु । उभयथाऽपि निर्विकल्पकसिद्धिः । तथाहि । स्मरणपक्षे तज्जनकसंस्कारस्योद्बोधः सहकारी । स च ज्ञानरूप एवेति जागराद्यस्मरणाव्यावहितप्राकालीनं निर्विकल्पकमायातम् । अनुभवत्वैपक्षे तु सुषुप्तिप्राक्कालीन विशेषणज्ञानस्य संस्कारद्वारा जनकत्वेऽपि संस्कारीद्बोधरूपत्वेनै निर्विकल्पकमवश्यं वाच्यं, तथा च लाघवात् तदेव विशेषणविषयतया विशिष्टज्ञानजनकमङ्गीक्रियतामलं संस्कारद्वारा - व्यवहितज्ञानस्य जनकत्वकल्पनया । किञ्च विशिष्टानु भवत्वम् अव्यवहितवि शेषणज्ञानजन्यता नियतमिति व्याप्तिरपि रक्षिता स्यात् ।
यद्वा प्रत्यग्रोत्पन्नविशेषणविशिष्टविषयकसविकल्पकं पक्षीकृत्य निर्विकल्पकसाधनं युक्तम् । न च सामान्यलक्षणया प्रत्यासच्या रूपादिसविकल्पकेनैव सिद्धसाधनमिति वाच्यम् । अनेन हि रूपवान् घट इति प्रतीतिः स्यात् । न त्वेतद्रूपवानिति । सविकल्पकरूपं हि विशेषणज्ञानं येन रूपेण विशेषणमुल्लिखति तेनैव रूपेण विशिष्टज्ञाने विशेषणस्य भानमिति नियमः । अन्यथा प्रमेयत्वेन रूपज्ञानाद्रूपवान् घटः इति प्रतीतिप्रसङ्गात् । न च निर्विकल्पकेऽप्येवं प्रसङ्ग इति वाच्यम् । तस्य तदर्थमेव कल्पनायां धर्मिग्राहक प्रमाणविरोधात् । एवं सामग्रीवशात् स्थानान्तरेऽपि निर्विकल्पक मूहनीयमिति किमनुपपन्नम् ? |
દ
ननु तथापि समवायाभावयोः कथं सविकल्पकैकवेद्यता । तथाहि । रूपसमवायवान् घट इत्यादौ सविकल्प के समवायस्यापि विशेषणत्वात्, अघर्ट भूतलमित्यादौ अभावस्यापि विशेषणत्वात्, विशेषणज्ञानत्वेन च निर्विकल्पककल्पनात् । एवं विशेषणत्वाविशेषेऽपि रूपत्वादिकं निर्विकल्पकविषयो, न तु समवायाभावाविति न कश्चिन्नियामकम् । वैपरीत्यस्यापि सुवचत्वात् । P reads अतिप्रसञ्जकतया । २ Mg repeats the text beginni from अत्रोच्यते to सुवर्णपदेन किं पक्षत्वेन अभिमतम् । ३. P reads अनुभवपक्षे । ४. M, reads • रूाजनकत्वेन । ५. M reads ( अ ) व्यवहित ज्ञानकल्प - नया । ६. Preads तत्त स्थानविशेषेऽपि । ७. P reads न किञ्चिदनुपपन्नम् । ८. P+ I. O read •वेद्यतानियमः । ९ P+Mg read किं नियामकम् ।
१.
ng
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org