________________
निर्विकल्पकवादः। न च रूपसमवायवान्' घट इत्यत्र समवायो विशेषणम् , समवाये च रूपम् , तथा च रूपमे निर्विकल्पकेन विषयी क्रियते, अनन्तरं रूपविशेषणकैसमवायविशेष्यकं सविकल्पकमनन्तरं रूपसमवायवान् घट इति प्रतीतिरित्येतावतैवोपपत्तौ समवायादेनिविकल्पकविषयतया कल्पनायां कल्पनागौरवम् इति वाच्यम् । एवं हि रूपमपि निर्विकल्पकविषयो न स्यात् । तत्रापि रूपत्वं विशेषणमेव, तदेव निर्विकल्पकेन विषयीक्रियत इत्यस्य सुवचत्वात् । न च जातिभानं व्यक्तिविषयतानियतमिति कृत्वा तत्र व्यक्तिर्भासत इति वाच्यम् । एवं निर्विकल्पके समवायस्यापि भानप्रसङ्गात् । रूपज्ञानस्य समवा. यविषयतानियतत्वात् । न ह्येतादृशं ज्ञानं यत्र समवायो न भासते। एवं प्रयोगः -समवायाभावी निर्विकल्पकविषयौ अस्मदादिसाक्षात्कारविषयत्वात् । रूपादिवत् । न तावदवच्छेदकग्रहध्रौव्यात् सविकल्पकैकवेद्यता ज्ञानेच्छासंयोगादीनामपि सविकल्पकैकवेद्यताप्रसङ्गात् । अत्रापि विषयसंयोगिनोरवच्छेदकयोग्रहध्रौव्यस्य विद्यमानत्वादिति ।
मैवम् । विशिष्टसाक्षात्कारान्यथानुपपत्त्या हि विशेषणज्ञानत्वेन निर्विकल्पककल्पनं, समवायाभावयोरन्यथोपपत्तिदर्शनात्" किमिति तद्विषयत्वमपि निर्विकल्पकस्प स्त्रो कर्तव्यम् । तथाहि । जात्यादिकं तावन्निर्विकल्पकेन विषयोक्रियते । अनन्तरं तद्विशेषितसमवायविशेष्यकज्ञानोदयः । अनन्तरं तेन समवायिविशेष्यकेन 'इदं" रूपम्' 'अयं घटः' 'रूपवान् घटः' इत्यादयः प्रत्यया जायन्ते । एवमभावेऽपि प्रथममभावविशेष्यक एव प्रत्ययो जायते अनन्तरं तेन तद्विशेषणकप्रत्ययो जन्यते इति । संयोगज्ञानादौ पुनरवच्छेदकग्रहध्रौव्येपि संयोगवज्ञानवनिर्विकल्पकविलम्बेन तद्विशिष्टप्रत्ययविलम्बः। तथा च न तस्य सविकल्पकवेद्यता। _अन्ये तु संयोगज्ञानादेरपि सविकल्पकैकवेद्यतैव । नच संयोगत्वादिनिर्विकल्पकापेक्षाविलम्बेः । यावद्विशेषणज्ञानस्य गौरवभयेन विशिष्टप्रत्यय
१. M, reads रूपवान् instead of रूपसमवायवान् in all three places. २. P reads तथा चारूपमेव । ३. P drops रूपविशेषणक । ४. P reads विषयताकल्पनायाम् । ५. P drops एव । ६. P adds अपि here. ७. P reads आतिज्ञानम् । ८. P Iads व्यक्तेर्भानम् । ९. P reads ज्ञानेच्छादीनामपि । १०. M, reads समवाये च, P reads समवाये चान्यथोपपत्तेर्दर्शितन्वात् । ११. M. reads समवायविशेष्यकप्रत्ययेन, I. O. reads समवायायविशेष्ये। प्रत्ययेन । १२. I. O. adds इच्छात्व here । १३. P reads निर्विकल्पके विलम्बन । १४. P reads (अ,पेक्षया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org