________________
(१४) निर्विकल्पकवादः ।
निर्विकल्प तावद्विप्रतिपत्तिः । ज्ञानत्वं निष्प्रकारकवृत्ति न वा । यद्वा ज्ञानत्वं निष्प्रकारकत्वसमानाधिकरणं न वा । एवं सति निर्विकल्पके प्रमाणमाहुः । जागराद्यसविकल्पकं जन्यविशेषणज्ञानजन्यं जन्यविशिष्टज्ञानस्वात् । दण्डी पुरुष इति ज्ञानवदिति । अत्र पक्षधर्मताबलात् अप्रकारकं विशेपणविषयक जागराद्यज्ञानाव्यवहितपूर्व समयवर्त्तिज्ञानं सिध्यति । सप्रकारकत्वे विशेषणान्यविषयत्वे च पक्षधर्मताविरोधात् । सप्रकारत्वे हि तदेव जागराचसविकल्पकं स्यात् । न तु पक्षीकृतं ज्ञानमिति पक्षतावच्छेदकधर्मविरोध इति ।
ननु सुषुप्तिप्राकालीनसविकल्पकेनैव विशेषणविषयकेण संस्कारद्वारासिद्धसाधनम् । संस्कारद्वाराऽपि विशेषण ज्ञानस्य विशिष्टज्ञानजनकत्वं इष्टमेवै । यथा व्यवहितस्यानुभवस्य स्मरणं प्रति । न च जागराद्यनुभवस्य पक्षत्वमनुभवस्य चाव्यवहितपूर्ववर्ति विशेषणज्ञानजन्यत्वनियमान्न सिद्धसाधनमिति वाच्यम् । अप्रयोजकत्वात् । अनुभवत्वं वा जागराद्यज्ञानस्यासिद्धम् । स्मरणमेव जागराद्यज्ञानं तच्च व्यवहितेनापि विशेषणज्ञानेन जन्यत इति किमिति निर्विकल्पककल्पनम् ।
न च प्रत्यग्रोत्पन्नविशेषणविशिष्टघटस विकल्पकं पक्षीकृत्य निर्विकल्पकसाधनमिति युक्तम् । प्रत्यग्रोत्पन्नविशेषणं रूपादिकमेव । तदपि च रूपत्वादिना पूर्वं सामान्यतो ज्ञातमेव । ननु व्यवहारस्तावदयं सकलजानसाधारणः । यत् ममात्र सविकल्पकं न वृत्तं किन्तु निर्विकल्पकमेव । तथा चैतद्द्व्यवहारानुरोधेनावश्यं निर्विकल्पकं स्वीकर्तव्यमिति । मैवम् । मम तत्र निर्विकल्पकं वृत्तमिति व्यवहारस्य संमुग्धसविकल्पकगोचरत्वात् । निर्विकल्पस्यातीन्द्रियत्वाऽभ्युपगमत्वाच्च । न च ज्ञानत्वं निष्प्रकारकत्वसमानाधिकरणं सकलज्ञाने"वृत्तित्वात् सत्तावदिति वाच्यम् । ज्ञानातिरिक्तवृत्तित्वस्योपाधित्वात्" |
१. P reads जागरायस विकल्पक ज्ञानाव्य ०, Mg reads οपूर्ववर्त्ति ० । २. P + I. O read दृष्टमेव । ३. P reads पूर्वसमयवर्ति । ४. Padds एव here. । ५. P reads न, But Pn reads किमिति । ६. P+IO read प्रत्यग्रोत्पन्नमपि विशेषणम् । ७. I. O reads सामान्यतो दृष्टमेव, Preads सामान्यतो ज्ञानमेव । <. P reads (अ) वश्यं स्त्रीकरणीयम् । ९. Mg reads सविकल्पक ज्ञान० । १०. Mg reads ( उ ) पाधेः सत्त्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org