________________
न्यायसिद्धान्तदीपे _प्रतिबन्दितरङ्गिणीसन्तरणोपायस्तु प्रत्यभिज्ञानविशेषतरिरेवे । तथा ह्यात्मनो ज्ञानादिलिङ्गानुमेयत्वे योऽहं चक्षुषा घटमद्राक्षं सोऽहन्त्वचा स्पृशामीति प्रत्यभिज्ञानं केन लिङ्गेन स्यात् । न च वायोरतीन्द्रियत्वे य एव वातः प्राचीन: शीतः आसीत् स एवेदानीमुष्णो वातोति प्रत्यभिज्ञानं केन समाधेयमिति वाच्यम् । प्रत्यभिज्ञानस्य पूर्वदिक्प्रभवत्वाद्युपाधेरेवान्यथासिद्धेः। उपाधिग्रहव्यतिरेकेण तथाप्रत्यभिज्ञानस्यासिद्धेः । तस्मात्तत्तदिक्प्रभवत्वमेवैको धर्मः प्रत्यभिज्ञानेन विषयीक्रियत इति । अतो धयंश एव प्रत्यभिज्ञानं न स्यात् अन्यथासिद्धः । वायोस्त्वगिन्द्रियाग्राह्यत्वे शीतो वायुरिति त्वगिन्द्रियजो भ्रमः कथं स्यात् । विशेषयोग्यतामादायैवेन्द्रियाणां प्रवृत्तिरिति चेत् नै, प्रमा प्रति विशेष्ययोग्यतापेक्षणात् । भ्रमस्य ज्ञानान्तरोपनीते विशेष्ये दर्शनात् । मानसोऽयं भ्रम इत्यन्ये । स्पर्शविशेष्यक इत्यपरे । एवं बाधात् प्रत्यक्षतासाधकानुमानमपि नावतरति । वायुरतीन्द्रियः आत्मभिन्नत्वे सति नीरूपद्रव्यत्वात् । आकाशवदिति । वायुः पृथिव्यादिभिन्नतया प्रत्यक्षो न सिध्येत् , तदा तद्भिन्नतया न सिध्येदेवेति चेत् । न । वायोः प्रत्यक्षस्वेऽपि इतरभेदांशे प्रत्यक्षस्योदासीनत्वादिति सक्षेपः ॥१३॥
१. I. O. reads तरीरेव । २. P reads (अ)भ्युपस्पृशामि । ३. P+M, read प्रत्यभिज्ञानस्यान्यथासिद्धिः । ४. P reads मैवम् । ५. P reads भ्रमः स्पर्शाविशेष्यक इत्येके । ६.P reads oसाधकमनुमानमपि । ७. P reads यदि वायः । ८. P adds इति वायुप्रत्यक्षतावादः, I. O. reads इति वादस्त्रयोदशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org