________________
वायुप्रत्यक्षतावादः। एवं तत्प्रत्यक्षतासाधकमनुमानमप्युच्यते । वायुः प्रत्यक्षः महत्त्वे सत्युद्भूतस्पर्शवत्वात् घटवत् । न चोष्मादिना व्यभिचारः । तत्र साध्यविरहस्यासिद्धेः । न च रूपवत्त्वमुपाधिः । रूपादावेव साध्याव्यापकत्वात् । न च द्रव्यत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकमिदमेवोपाधिः । आत्मनि साध्याव्यापकत्वादिति ।
अत्रोच्यते । बहिरिन्द्रियजद्रव्यसाक्षात्कारविषयता तावदवश्यं किञ्चिन्नियभ्या अन्यथा द्रव्यमात्रस्य तथासाक्षात्कारविषयतापत्तेः । न च यथा द्रव्यसाक्षात्कारविषयतागुणसाक्षात्कारविषयतादीनां नानुगतं नियामकम् , तथाऽत्रापि कचिदुद्भूतरूपवत्त्वे सति महत्त्वं क्वचिदुदभूतस्पर्शवत्त्वे सति महत्त्वमेव भविष्यति इति वाच्यम् । यतो विनिगमनाविरहादुभयोरपि प्रयोजकत्वे वायोः प्रत्यक्षता न सिध्यति योग्यानेकविशेषगुणवत्त्वं द्रव्यसाक्षात्कारमात्रे प्रयोजकमिति कश्चित् तच्चिन्त्यम् । किश्चान्यत्रानुगतनियामकाभावात् तथात्वम् , अत्र पुनरनुगतस्य रूपविशेषवत्त्वे सति महत्त्वस्य द्रव्यचाक्षुषसाक्षात्कारे योग्यतावच्छेदकत्वमवश्यं स्वीकार्यम् । तस्यैव च बहिरिन्द्रियजद्रव्यसाक्षात्कारयोग्यतावच्छेदकत्वसम्भवात् कथं बाधकं विना तत्परित्यागः।
यत् पुनरुक्तं त्वगिन्द्रियजद्रव्यसाक्षात्कारे यदेव योग्यतावच्छेदक क्लुप्तम् तदेव बहिरिन्द्रियजद्रव्यसाक्षात्कारे उद्भूतस्पर्शवत्त्वे सति महत्त्वमेव नियामकमस्तु, प्रभादिप्रतीतिस्तु लिङ्गजन्यैव भविष्यतीति तदसङ्गतम् । तथाहि रूपविशेषात् प्रभाप्रतीतिसम्भवेऽपि तद्धर्मसंयोगादिप्रतीतिरुन्मीलितनयनस्य केन लिङ्गेन स्यात् । प्रभादीनामप्रत्यक्षत्वे तद्गतधर्मग्रहे न कोऽप्युपायः । न च संयोगादिगोचरतथाभूतसाक्षात्कारनियामकं रूपविशेषवत्त्वे सति महत्त्वम् आश्रयस्य द्रव्यगोचरे तु तथाभूतसाक्षात्कारे स्पर्शवत्वे सति महत्वमेव नियामकमिति वाच्यम् । गौरवप्रसङ्गात् । तस्मादुदभूतरूपवत्त्वे" सति महत्त्वमेव तस्मिन् नियामकमिति कथं तद्रहितस्य वायोः प्रत्यक्षस्वसम्भावनापि ।
१. P drops तथा । २. M, drops यथा । ३. P reads अविनिगमनात् । १-४.This portion is missing in M1 । ५. P inserts प्रभायामव्याप्तेः । ६. P reads स्त्रो कर्त्तव्यम् । ७ [.O. reads बहिरिन्द्रियजन्यदव्यसाक्षात्कारे योग्यतावच्छेदकत्वस्य संभवः । ८. M1 reads तद्वर्ण o instead of तद्धर्म० । ९. P+I.O. read नेत्रस्य । १०. MI misses आश्रयस्य । ११. P leads (उ)द्भूतस्पर्शवत्त्वे । १२. P+M, drop तस्मिन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org