________________
(१३) वायुप्रत्यक्षतावादः ।
वायुः प्रत्यक्ष इत्येके । तेषामयमाशयः । त्वगिद्रियव्यापारानन्तरं वायुवतीति प्रतीतिः सकलजनसिद्धा । नेयं स्पर्शादिलिङ्गजन्या व्याप्त्यादिप्र तिसन्धानविरहेऽपि जायमानत्वात् । अन्यथा त्वगिन्द्रियव्यापारानन्तरं जाय मानघटप्रतीतेः साक्षात्कारित्वे का प्रत्याशा । तत्रापि स्पर्शादिलिङ्गप्रभवैत्वस्य वक्तुं सुकरत्वात् ।
ननु बहिरिन्द्रियजद्रव्यसाक्षात्कारविषयत्वावच्छेदकमुद्भूतरूपवत्वे सति महत्त्वं तच्च वायौ नास्तीति कथं तत्प्रत्यक्षत्वम् | त्वगिन्द्रियव्यापारस्तु स्पर्शादिलिङ्गप्रतीतावेवान्यथासिद्धः । धूमप्रतीतौ चक्षुर्वत् । व्याप्त्यादिप्रति । सन्धानविरहेऽपि जायमानत्वमसिद्धमिति । मैवम् । उद्भूतरूपवत्वे सति महवस्य बहिरिन्द्रियजद्रव्यसाक्षात्कारविषयत्वावच्छेदकत्वासिद्धेः । उद्भूतस्प शवत्त्वे सति महत्त्वस्यैव हि तत्रावच्छेदकत्वम् । न चैवमूष्मादेः स्पर्शनत्वापत्तिदोषाय । इष्टापत्तेः । न चैवं प्रभादेर्बहिरिन्द्रियजद्रव्यसाक्षात्कार विषयत्वानुपपत्तिः " । तत्र तथाभूतसाक्षात्कारविषयत्वासिद्धेः । एवं हि तत्रापि वक्तुं शक्यते । चक्षुर्व्यापारो रूपादिलक्षणलिङ्ग प्रतीतावेवाऽन्यथासिद्धः । प्रभादिप्रतीतिस्तु लिङ्गजन्यैवेति ।
किं चैतदेव त्वं किमिति नाङ्गीकुरुषे यद् द्रव्यसाक्षात्कार विषयत्वमात्रावच्छेदकमेव उद्भूतरूपवत्त्वे सति महत्त्वम् । अलं बहिरिन्द्रियजैत्वविशेषणग्रहणेन । एवं सत्यात्मा प्रत्यक्षो न स्यादिति चेत् । मा भव । सोऽपि ज्ञानादिनाऽनुमीयताम् । तस्मात् स्वीकुरु वायोः प्रत्यक्षत्वम् । परिहर वा आत्मनः प्रत्यक्षत्वमिति दुस्तरा प्रतिबन्दितरङ्गिणी । न च द्रव्यग्रहणयोग्यताव्यापकयोग्यतानां संायपरिमाणादीनां प्रत्यक्षताप्रसङ्गो बाधक इति वाच्यम् । करपुटधृतवायोः संख्यादीनां प्रत्यक्षत्वनेष्टापत्तेः ।
१. M, reads परेषाम् । २. Preads सक्कजनानुभवसिद्धा, I.O. read ० जनप्रसिद्धा । ३ M1 drops अपि । . M2 drops ० प्रभव० । ५. P read धूमादिप्रतीत ६. P+I.O.+Mg read (अ) नुपपत्तेः । ७. Mg reads प्रत्यक्षत्वापत्तिः ८. Mg drops दोषाय ।९ P drops चैवम् । १०. P drops • द्रव्य, I.O reads साक्षात्कारत्वानुपपत्तिः ११. P reads चैवमेव । १२ P drops यद् | १३ P+I.O. read बहिरिन्द्रियजन्यविशेषण ० ।१४. P reads मा भूत् । १५. P read: संख्यापरिमाणादीनाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org