________________
(१२) अन्वयशक्तिनिरासवादः । अन्विते शक्तिरित्यपि विचारणीयम् । तत्र परेषामयमाशयः । तत्तदान्वयबोधजनकत्वं तावत्तत्पदकदम्बकस्येति सुप्रसिद्धम् । तत्रान्वयबोधजनकत्वं न तस्य नियामकं विना सम्भवति । नियामकत्वं च पदशक्ता तदर्थशक्तेर्वा । तत्र द्वितीये गौरवप्रसङ्गात् पदानामेवोपजीव्यत्वेनान्वयांशेपि शक्तिः स्वीक्रियताम् । तदिदमुच्यते ।
"प्राथम्यादभिधातृत्वात् तात्पर्योपगमादपि । पदानामेव सा शक्तिवरमभ्युपगम्यताम् ॥"
[प्रकरणपञ्चिका, वाक्यार्थमातृका-प्रथमपरिच्छेद-११] किं चान्वयस्याशक्यत्वे क्रियामात्राभिधाने कर्मविशेषजिज्ञासा कर्ममात्राभिधाने क्रियाविशेषजिज्ञासा च कथं स्यात् । न हि सामान्याप्रतीतौ विशेषजिज्ञासा सम्भवति । न चान्वयांशस्यापि शक्यत्वे यत्किचित्पदेन अन्वयबोधोपपत्तौ पदान्तरवैफल्यमिति वाच्यम् । प्रतियोगिविशेषोपस्थिती तदुपयोगादिति ।
अत्रोच्यते । घटादिपदानामितरान्विते शक्तिरानयनादिविशेषेतरान्विते वा । न तावदाद्यः। कारकक्रियासमभिव्याहृतवाक्यात् कारकान्विता क्रिया क्रियान्वितं कारकमिति प्रतिपत्तिप्रङ्गात्। तथा च वाकयभेदो विशेषाप्रतिपत्तिश्च स्यात् । आकाङ्क्षादिमत्समभिव्याहारविशेषाद् विशेषलाभ इति चेत् । तर्हि तस्मादन्वयलाभोपपत्तौ तत्र शक्तिकल्पनाया अन्याय्यत्वात् । तदिदमुच्यते ।
"अन्वयस्यान्यतः प्राप्तेरन्यथाऽनुपपत्तितः ।। अनन्यलभ्यमात्रार्थशक्तान्येव पदानि नः ॥" [ 1 इति
न द्वितीयः। वाक्यार्थस्य घटमित्यनेनैव बोधितत्वात् आनयनादिदवैफल्यप्रसङ्गात् । न च विशेषजिज्ञासाऽन्यथाऽनुपपत्त्याऽन्वयशक्तिकल्पनं युक्तम् । अन्वयमात्रस्य व्याप्तिबलेन प्राप्तौ द्विशेषजिज्ञासाया अन्यथैवोपपत्तेः । अन्यथा चक्षुःपरिदृष्टजम्बीरादौ रसविशेषजिज्ञासाबलेन रसमात्रं चक्षुग्राह्यं स्यात् । न च पदानां पदार्थानाम् अन्वये शक्तिः । अन्वयस्य प्राधान्येन प्रतियोगिनश्चे उपसर्जनत्वेन प्रतीतिप्रसङ्गात् । न च तथा । किं त्वन्वयस्योपसर्जनतया प्रतियोगिनः प्रधानतया भानमिति सक्षेपः ॥छ॥१२॥
१. P+M, read प्रतिपत्तिः स्यात् । २. M, reads यदिदमुच्यते । ३. I. O. reads वाक्यार्थान्वयस्य, Ma adds एव । ५. P reads पदप्रयोगवैफल्य०, I.O. reads आनयनादिप्रयोगः । ५. P+MI drop च । ६. P adds इति अन्वयशक्ति. निरासवादः, I. O. reads इति द्वादशो वादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org