SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ न्यायसिद्धान्तदीपे न च सुरसमाम्रफलमित्यत्राध्याहृत्य प्रवर्त्तत इति युक्तम् । अध्याहारे प्रमाणाभावात् । न च साध्यतोपरागस्य वाक्यार्थानुभावकतायां प्रयोजकत्वम् । आकाङ्क्षादिमत्त्वेनैव तदुपपत्तावन्यस्य गौरवकरत्वात् । न च सिद्धार्थादसंसर्गाग्रहेण व्यवहारोपपत्तिरिति वाच्यम् । बाधकाभावात् । अन्यथा वैपरीत्यस्य वक्तुं सुकरत्वात् । न च प्रवृत्तिरूपव्यवहारस्यैव व्युत्पत्तौ प्रयोजकत्वम् । लाघवेन व्यवहारमात्रस्य तथात्वात् । सिद्धार्थात् व्युत्पत्तिविरहेऽप्यन्यत्र व्युत्पन्नस्य तस्मादनुभवे बाधकाभावात् । तस्मात् सिद्धार्थस्यानुभावकता नास्ति इति वदतो गुरोरपि लघुत्वमेवेति ॥छ॥११॥ - १. P+I.O. add एव । २. P reads साध्योपरागस्य वाक्यानुभावकल्पनायाम् । ३. M1 तदुत्पादकोपपत्तावन्यस्य, Mg reads तदुत्पत्तावन्यस्य । ४. P+Mg add एव. I.O. adds अपि । ५ P adds इति सिद्धार्थवादः समाप्तः, I.O. इत्येकादशमो वादः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002636
Book TitleNyayasiddhantadipa
Original Sutra AuthorShashadhar
AuthorBimal Krishna Matilal
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages270
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy