________________
(११) सिद्धार्थप्रामाण्यवादः । सिद्धार्थस्यानुभावकताया अभावात् तत्र व्युत्पत्तिग्रहो नास्तीति केषाचिन्मतम् । तत्र तेषामयमाशयः-प्रयोजकवृद्धोदीरितवाक्यश्रवणानन्तरं प्रयोज्यवृद्धव्यवहारमाकलयन् तेन व्यवहारकारणीभूतं तदीयं ज्ञानमवगच्छन् तत्र चावापोद्वापक्रमेण तत्तत्पदानां कारणतामवधारयन् तत्रैवार्थे वाच्यवाचकभावलक्षणं सम्बन्धमवधारयति तटस्थो व्युत्पित्सुः । सिद्धार्थस्य साध्यतोपरागविरहात् कथं तदधीनव्युत्पत्तिग्रहः। अनुभावकत्वे वाऽऽकाङ्क्षादिवत् साध्यतोपरागस्यापि प्रयोजकत्वात् । तत्साध्यतोपरागपरीद्वाक्यात् प्रवृत्तिलक्षणव्यवहारसंदर्शनात् । तेन च तत्प्रयोजकज्ञानोन्नयनात् , तत्र च शब्दस्य तद्भावभावित्वेन तत्कारणत्वावधारणात् व्युत्पद्यते बाल इति युक्तम् ।
न च पुत्रस्ते जात इति सिद्धार्थादपि हर्षप्रयुक्तमुखप्रसाददर्शनात हर्षस्य ज्ञानसाध्यत्वात् तत्रापि शब्दस्यैव हेतुत्वमिति वाच्यम् । हर्षहेतूनामानन्त्येन शब्दजन्यज्ञानसाध्यत्वासिद्धेः । न च सुरसमाम्रफलमिति वाक्यश्रवणानन्तरं तत्र प्रवृत्तिदर्शनात् ततोऽनुभवकल्पने व्युत्पत्तिग्रहसम्भव इति वाच्यम् । यतः साध्यार्थस्थले क्लुप्तसाध्यतोपरागस्य प्रयोजकत्वव्यवस्थितौ तत्रापि तदध्याहृत्यैव" प्रवर्तत इति युक्तम् । तदिदमुच्यते कार्यपराणामन्विते शक्तिरिति । . अत्रोच्यते । हर्षहेतूनामानन्त्यादित्यनेन ज्ञानव्यतिरेकेणैव तत्र हर्ष उत्पद्यत इति वाभिमतम्" प्रमाणान्तरोपजातज्ञानाद्वा । न तावदाधः । हर्षस्य सुखस्वरूपतया तस्य ज्ञानकारणकत्वव्यवस्थितौ तदन्तरेण तदुत्पत्तेरसम्भवात् । अन्यथा प्रवृत्तेरपि ज्ञाननरपेक्ष्यकल्पनापसगात् । न द्वितीयः । वाक्यादन्यस्य प्रमाणस्य तत्र कल्पनीयत्वात् । वाक्यकारणत्वस्यैव युक्तत्वात् । अन्यथा गामानयेत्यादावपि प्रमाणान्तरजन्यज्ञानेनान्यथासिद्धिमसङ्गात् । .
१. I. O. reads इदमाकूतम् । २. P+I.O. read तत्र चार्थे । ३. P reads अनुभावकत्वेन । ४. P+I.O read साध्यतोपरक्तात् । ५. P dropsच। B.Pn read तद्भावभावितया। ७. Madrops एव । ८. P reads परिणतिसुरसम् । . M. reads (अ)नुभावकत्वकल्पने । १०. P reads क्लुप्तस्य साध्यतोपरागस्य ।
M.. reads तदेव साध्यमाहृत्य । १२. I.O. adds पूर्वेपक्षः । १३. Ma reads तवाभिमतम् । १४. P reads ज्ञानकारणत्व०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org