________________
मुक्तिवादः । हि निरुपप्लवत्वं-दुःखविरहितत्वं' यदि तदा तावन्मात्रस्य पुरुषार्थत्वव्यवस्थितौ चित्तसन्त तेरकाम्यत्वेन वदहिर्भावात् । न च मुक्तिदशायां चित्तसन्ततेरवस्थानमपि सम्भवति । सम्भवे वा उत्पन्नसन्तानस्य विनष्टत्वात् । अन्यस्यापि शारीरादिव्यतिरेकेणोत्पादासम्भवात् । न च मुक्तिदशायां तैन्न करणमिति वाच्यम् । तन्मात्रे तत्कारणत्वावधारणादिति ।
नापि पञ्चमः । पूर्वचित्तनिवृत्तेरयत्नसिद्धत्वेन तदर्थं प्रवृत्त्यनुपपत्तेः । अग्रिम चित्तानुत्पादस्य प्रागभावरूपतयाऽसाध्यत्वात् । ध्वंसस्यासम्भवात् । न च चित्तनिवृत्तेः कथमपि पुरुषार्थत्वम् । सुखदुःखाभावेतरत्वादिति । नापि षष्ठः। आत्महानस्यानुद्देश्यत्वात् नित्यतयाऽशक्यत्वाच्चेति । नापि सप्तमः । प्रागभावस्य प्रतियोग्युत्पत्तिनियतत्वेन मोक्षानन्तरं दुःखोत्पत्तिप्रसङ्गात । प्रतियोग्युत्पत्तेरावश्यकत्वेन तदुत्पादकनिवर्तनस्याशक्यत्वात् । न च दुःख हेतूच्छेद एव तत्प्रागभावपरिपालनमिति वाच्यम् । तन्मात्रस्यैव पुरुषार्थत्वेनैवान्यथोषपत्तौ तस्यां दशायां प्रागभावानुवृत्तौ प्रमाणाभावात् ।
एतेन कस्यचित् प्रागभावस्य प्रतियोग्युत्पत्तिनियतत्वमपि त्यज्यतामिति निरस्तम् । अन्यथोपपत्तेर्दर्शितत्वात् । न च प्रागभाव एवोत्तरसमयसम्बन्धित्वेन साध्यत इति वाच्यम् । तदुत्तरसमयसम्बन्धो हि किं नवमद्रव्यसम्बन्धः तदुपाधिसम्बन्धो वा । सोऽपि स्वरूपमे वा अतिरिक्तो वा । न तावदाद्यः। नवमद्रव्यस्वरूपसम्बन्धस्याकार्यत्वात् । प्रागभाववत् तस्यासाध्यत्वात् । न द्वितीयः। उपाधेरागन्तुकत्वेनै स्वकारणाधीनतयाऽयत्नसिद्धत्वात । अतिरिक्तसम्बन्धस्यानङ्गीकारात् । अप्रामाणिकत्वाच्चेति । कि बहुना।
। नन्वात्यन्तिकी दुःखनिवृत्तिरित्यनुपपन्नम् । तथाहि दुःखनिवृत्तिरिति दुःखध्वंसो वा विवक्षितः । अभावान्तरं वा । नाथः । उत्पन्नदुःखध्वंसस्याऽयत्नसिद्धत्वेन तदर्थ प्रवृत्त्यनुपपत्तेः । अनुत्पन्नप्रतियोगिकस्य दुःखैध्वंसस्याशक्यत्वात् । प्रत्युत दुःखोत्पादाथे प्रवृत्तिप्रसङ्गात् । न चैवं दृश्यते । नेतरः । अभावान्तरस्यासाध्यत्वेन पुरुषार्थत्वानुपपत्तेः। किं वा दुःखनिवृत्ते
१. P adds इति । २. I. O. reads उपपन्नसन्तानस्य । ३. M, reads तन्निराकरणम् । ४. P reads पूर्व चित्त० । ५. P omits वसस्यासम्भवात् । ६. p readsन वाऽस्या: चित्त । ७. Ma adds here पुरुषार्थत्वेन । ८. P reads अन्यथोत्पत्तौ । ९. P reads सम्बन्धो हि स्व । १०. Mg reads स्वरूपसम्बन्ध एव वा। ११. P reads (आ)गन्तुकत्वेपि । १२. P adds विवक्षितम् here । १३. M+M, drop दुःख । १४. P reads किञ्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org