________________
३४
सुखस्य संसारिदेशायां शरीरादिनैव प्रतिबन्धान्नाभिव्यक्तिः । तथा च न योग्यानुपलम्भबाधोऽपि ॥ श्रीः॥
अत्रोच्यते । न तावदियं श्रुतिर्नित्यसुखे प्रमाणं, तथाहि लोकसिद्धेन सुखेनानया श्रुत्या ब्रह्माभेदो बोध्यते, सुखान्तरेण वा । न तावदाद्यः । लोकसुखस्य विनाशित्वेन ब्रह्माभेदे बाधात् । नेतरः । सुखान्तरं हि प्रमाणान्तरसिद्धं, श्रुतिसिद्धं वा । न तावदाद्यः । तथाविधसुखबोधकस्य प्रमाणान्तरस्याभावात् । न द्वितीयः । श्रुतेः सुखनित्यतांशेऽसामर्थ्यात् । न च नित्यत्वविशेषणबलात् प्रथमतस्तावन्नित्यं सुखं श्रुत्या बोध्यतेऽनन्तरं तेन सह ब्रह्माभेद इति वाच्यम् । तथा सति वाक्यभेदप्रसङ्गात् । न हि नित्यत्वविशेषणस्य सुखेनान्वयसम्भवः, अयोग्यत्वात् - किन्तु ब्रह्मणैव ।
न्यायसिद्धान्तदीपे
किञ्च सुखाभेदबोधनमपि ब्रह्मणोऽनुपपन्नमेवें । तस्य सुख्यहमित्यनुभवेन तदाश्रयत्वेन विषयीक्रियमाणत्वात् । न च ब्रह्माभेदान्यथाऽनुपपत्त्या नित्यमुखसिद्धिरिति वाच्यम् । इतरेतराश्रयत्वप्रसङ्गात् । सिद्धे हि तथाविधे सुखे ब्रह्माभेदप्रतिपत्तिः, ब्रह्माभेदप्रतिपत्तौ च तथाविधसुखुसिद्धिरिति । तस्माद्वाधिततया ग्रावप्लवनै श्रुतिवदुपचरितार्थत्वमेव श्रुतेर्युक्तम् । एवम् " आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्" इत्यत्राऽप्यानन्दस्य ब्रह्मधर्मत्वेनैव प्रतीतेर्मोक्षपदेन जीवन्मुक्तिरेव विवक्षिता इत्यन्यथासिद्धौ न सुखस्वरूपे तस्मिन् प्रमाणं श्रुतिः । प्रत्युत “दुःखेनात्यन्तं विमुक्तश्चरति" इत्यादि - श्रुतिबला देवात्यन्तिकदुःख विरहरूपत्वमेवापवर्गस्य प्रतीयते ।
तथा च प्रमाणबलेन भावत्व पुरस्कारेण व्याप्तिसङ्कोच इति यदुक्तं तन्मन्दमेव । ध्वंसे तु घटादिप्रतियोगिक एव तथात्वकल्पनात् । नादृष्टकल्पनापि दोषायेति संक्षेपः । द्वितीयस्यायमर्थः । लिङ्गशरीरस्य एकादशेन्द्रियपञ्चभूतरूपस्य जीवात्मन्यपगमो विश्लेषः । स एव परब्रह्मणि लय इत्युच्यते । अयमप्यनुपपन्नः । तथाभूतस्य पुरुषार्थत्वे प्रमाणाभावात् । दुःखहेतुविवक्षायामस्मन्सिद्धान्तान्यतिरेकात्" । नापि तृतीयः । तथाविधप्रक्रियायां मानाभावात् । अन्यदर्शनाभ्युपेतपरत्वे चाविप्रतिपत्तेः । नापि " चतुर्थः । किमिदं सांसारिकदशायाम्, Pn+I. O read संसारदशायाम् । २. ३. लोकसिद्धस्य सुख स्य । read P P+Ma reads असिद्धत्वात् । ४. I. O. + Mg read सुखस्य नित्यतांशे । ५. P drops एव । ६. P read; प्रतीति instead of प्रतिपत्ति । ७. Preads प्रावाणः प्लवन्ते यजमाना वै प्रस्तर इति श्रुतिवत् । ८. Preads प्रतीतौ । ९. P reads विवक्ष्यते । १०-१०. M, has very corrupt reading for this portion | ११. I.O. reads तुरीयः ।
१. P reads
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org