________________
(१०) मुक्तिवादः ।
अपवर्गस्तावदान्वीक्षिकीप्रयोजनत्वेन महर्षिणा प्रदर्शितः । स च नानाविधविप्रतिपत्तिकवलितत्वादव्यवस्थित इति प्रयोजनत्वमेव तस्य न सम्भवतीति तद्व्यवस्थापनार्थमपवर्गों विविच्यते । तत्र नित्यनिरतिशय सुखाभिव्यक्तिर्मोक्ष इति तौता' तताः । जीवस्य लिङ्गशरीरापगम इति भास्करीयाः । प्रकृतितद्विकारोपधानविलये पुरुषस्य स्वरूपेणावस्थानमिति सांख्याः । निरुपप्लवा चित्तसन्ततिरित्यन्ये । अग्रिमचित्तानुत्पादे पूर्व चित्तनिवृत्तिरित्यन्ये । आत्महानमित्येके' । दुःखप्रागभावपरिपालनमिति मीमांसकाः । आत्यन्तिकी दुःखनिवृत्तिरिति गौतमीयाः । तत्र सर्वेषामनुपपन्नत्वाच्चरमपक्षो न्याय्यः ।
ረ
तथाहि - न तावदाद्यः, तथाविधसुखे प्रमाणाभावात् । ननु “नित्यं विज्ञानमानन्दं ब्रह्मेति" श्रुतिरेवात्र प्रमाणम् । न च नित्यसुखस्यासाध्यत्वादपुरुषार्थत्वमिति वाच्यम् । तदभिव्यक्तेरेव पुरुषार्थत्वात् । नन्वभिव्यक्तिरपि यदि नित्या तदा न पुरुषार्थः, सिद्धत्वात् । अथानित्या तथा चोत्पन्नस्य भावस्य विनाशित्वनियमादभिव्यक्तेर्विनाशे मुक्तस्य संसारित्वप्रसङ्गः । न हि तदनन्तरमभिव्यक्त्यन्तरमुत्पद्यते, तदुत्पादकस्य शरीरादेरभावात् । न च शरीरादिकमपि तदा कल्पनीयम् त्वर्येऽनभ्युपगमात्, अभ्युपगमे व तन्नियतदुःखा • द्युत्पत्तिप्रसङ्गादिति । मैवम् । प्रमाणबलेनोत्पन्नस्यापि भावस्याविनाशित्व - कल्पनात् । अन्यथोत्पन्नस्य प्रमेयस्य विनाशित्वदर्शनात् प्रध्वंसस्यापि विनाशित्वं कल्पेत । तत्र प्रमाणबलेन भावमात्रे व्याप्तिसङ्कोच इति यदि तत्रपि प्रमाणबलात् तथाभूताभिव्यक्तिव्यतिरिक्ते भावे व्याप्तिः सङ्कोच्यताम् । "अभिव्यक्तयन्तरोत्पादस्य शरीरादिकं विना नानुपपत्तिः । तथाभूताऽभिव्यक्तौ शरीरादिव्यतिरेकस्य कारणत्वं, प्रमाणबलेन तथाकल्पनात् । अत एव तस्य
,
१. I. O reads प्रयोजनत्वमपि न सम्भवति, M1 omits तस्य । २. P reads (इ)त्यपरे । ३. P reads गुरुमनतत्त्ववेदिनः । ४ Preads चरम एव पक्षः । ५. P adds तत्र । ६. I. O reads मानं भवति, P reads मानम् । ७. Mg reads स्वतः सिद्धत्वात् । ८. I. O reads संसारित्वं प्रसज्येत । ९ P drops अपि । १०. M, reads तथा । ११. Preads तु । १२. M reads विनाशित्वनियमात् । १३. Mg+Pn read तद्वदत्रापि । १४ I O adds किञ्च । १५. Preads ( उ ) त्पादे Mg reads (उत्पदेऽपि ।
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org