________________
न्यायसिद्धान्तदीपे रास्यन्तिकत्वं विवक्षितम् । समानाधिकरणदुःखासमानकालीनत्वमिति चेत् न । एवंविधदुःखाभावे प्रमाणाभावात् । प्रत्युत दुःखध्वंसस्यैव समानाधिकरणदुःखसमानकालीननियतत्वेनं तत्र प्रमाणसद्भावात् । कथं वास्याः पुरुषार्थत्वम् । सुखस्यापि हानिव्यवस्थितौ तुल्यायव्ययफलत्वेनानुद्देश्यत्वात् । न च जीवन्मुक्तिसमानकालीनसुखमुद्दिश्य प्रवर्त्तते , परममुक्तेस्त्वन्यथा लाम इति वाच्यम् । परममुक्तेरपुरुषार्थत्वप्रसङ्गात् । रागाभावेन सुखस्योदेश्यत्वानभ्युपगमाच्च ।
किं च परममुक्तित्वम् ? समानाधिकरणदुःखासमानकालीनदुःखध्वंसत्वम् इति चेन्न । सुखान्तमुक्तौ पूर्वमपि तथाविधदुःखध्वंसस्य जातत्वात् । भोगदशायां मुक्तत्वप्रसङ्गात् । न च दुःखान्तैव मुक्तिः, सुखमरणस्यापि श्रवणात् । नापि संस्काराजनकसाक्षात्कारविषयदुःखध्वंसत्वं सुखान्तमुक्तौ भोगदशायां मुक्तित्वप्रसङ्गात् । मुक्तेरुद्देश्यतावच्छेदकजिज्ञासायामेवैतस्योपन्यासानईत्वात् । न ह्यनेन मुक्तेरुद्देशतावच्छिद्यते । अत एव संस्काराजनकानुभवध्वंसत्वादृष्टनाशनाश्यदुःखध्वंसत्वे निरस्ते। अदृष्टनाशनाश्यत्वमपि दुःखस्यासिद्धमेव । दुःखस्य भोगैकनाश्यत्वात् । संशयस्य संस्काराजनकत्वेन संसारिदशायामपि मुक्तत्वप्रसङ्गादित्यप्याहुः । नाप्यजनकदुःखध्वंसत्वम् । असिद्धत्वात् । लिङ्गत्वेनानुमितो विषयीभूय योगिसाक्षात्कारे च जनकत्वस्य सम्भवात् । नापि सकलात्मविशेषगुणध्वंसत्वं सकलदुःखध्वंसत्वं वा।"मिलितप्रतियोगिकध्वंसस्यासिद्धेः" । नापि दुःखध्वंसमात्रम् । प्रत्येकविवक्षायामतिव्याप्तेः । चरमदुःखध्वंसैविवक्षायां तु तस्यावश्योपजीव्यत्वेनान्येषां परित्यागात् । नाप्यदृष्टाभावहेतु कानुभवध्वंसत्वम् । अस्यापुरुषार्थत्वात् । न च प्रायणान्त्यानुभवध्वंसेऽतिव्याप्तिः । तस्याः संस्कारेणैव विनाशोपपत्तिरिति ।
१. I.O. reads कालीनदुःखध्वंसत्वम् । २. P reads • नियतत्वे प्रमाणसद्भावात् । ३. P reads हानेरिति व्यवस्थितौ । १. P reads जीवन्मुक्तिदशकसुखम् । ५. P reads सुखस्यानुद्देश्यत्वाभ्युपगमात् । ६. I. 0. reads समानाधिकरणदुःखासत्त्वमिति । ७-७. This portion is missing in M1 । ८. P+M, drop मुक्तत्व०, I. 0. reads अतिप्रसङ्गात् । ९. M1 adds here नापि द्वेषाजनकदुःखध्वंसः । तस्यासिद्धः। १०. I. O. adds समुदायविवक्षायाम् । ११. P reads (अ)नुपपत्तेः । १२. P reads ध्वं सत्वविवक्षायाम् । १३. P+I. O. reads नाशोपपत्तेरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org