________________
(२) शानकर्मसमुच्चयवाद । अत्र कर्मतत्त्वज्ञानयोस्तुल्यवत्समुच्चयेनापवर्गकारणत्वमित्येके । तत्त्वज्ञानद्वारा कर्मणां तत्र कारणत्वं, तथा च न तुल्यवत्समुच्चय इत्याचार्याः । तत्र तेषामयमाशयः । तीर्थविशेषस्नानादियमनियमादिकर्मणां तावन्निःश्रेयसकारणत्वं शब्दबलादेवावगम्यते । तत्र निःश्रेयसे जनयितव्ये तत्त्वज्ञानव्यापारकत्वं तेषां न तावच्छब्द एव बोधयति । तत्र तस्यौदासीन्यात् । न च कर्मणामाशुतरविनाशित्वेन व्यापारोऽवश्यं स्वीकरणीयः ।
तत्र दृष्टेनैव तत्त्वज्ञानेनोपपत्तौ चादृष्टकल्पनाया अयुक्तत्वात् तत्त्वज्ञानव्यापारकत्वसिद्धिरिति वाच्यं, तत्त्वज्ञानस्यापि व्यवहितत्वेन तदर्थमपि कर्मकारणतानिर्वाहार्थमपूर्वव्यापारकत्वस्यावश्यं कल्पनीयत्वात् । तथा च निःश्रेयस एव जनयितव्येऽदृष्टेंमेव तदास्तामावश्यकत्वात् । उत्पन्नेऽपि तत्त्वज्ञाने यमनियमादिकमवश्यमनुष्ठेयं तदानीमपि मोक्षार्थिनो यमनियमादावधिकारानपायात । न चोत्पन्ने तत्त्वज्ञाने निःश्रयसोत्पत्तेर्यमनियमाद्यनुष्ठानानवकाश इति वाच्यम् । न ह्येकस्मात् तत्त्वज्ञानादपवर्गः किन्तुं तदभ्यासश्रवणात् । तथा च श्रुतिः
"अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।
ततो भूय इव ते तमो य उ विद्यायां रताः॥" [ईशोपनिषत् ९] अस्यार्थः । 'अविद्या' कर्म तद् उपासते' तत्रैवासक्ता भवन्ति ते 'अन्धं तमः प्रविशन्ति' संसारान्न प्रच्यवन्ते । तेन केवलकर्मोपासनेन न जन्मादिव्यकच्छेदः। ये च 'विद्यायां रताः' विद्या तत्त्वज्ञानं तन्मात्रासक्तास्ते 'भूयो'ऽतिशयेनान्धं तमः प्रविशन्ति, नित्याकरणेन प्रत्यवायस्य बहुतरत्वात् । न च नित्यस्यापि संन्यासः, तत्सन्न्यासस्यापि प्रतिक्षिप्तत्वात् । समुच्चयप्रतिपादिका च श्रुतिः --
१. P reads स्नानयमनियमकर्मणाम् । २. M+P reads शब्दबहादवगम्यते । ३. P reads स्वीकर्तव्यः । ४. P reads तत्त्वज्ञानव्यापारकत्वमिति । ५. P misses भइष्टमेव । ६. I.O. adds लाघवाच्च । ७. P. adds here नि:श्रेयसोत्पत्तये । 6. M, adds अपि । ९. I. O. adds अव्यवधानेन । १०. MI+P+I. O. drops किन्तु । ११. P reads अतिबहुतरत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org