________________
३१
ज्ञानकर्मसमुच्चयवादः । "विधां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं ती. विद्ययाऽमृतमश्नुते ॥" [ईशोपनिषत् ११]
अस्यार्थः । 'अविद्यां' कर्म 'विद्या' च तत्त्वज्ञानं 'सह' तुल्यवत यो 'वेद' प्राप्नोति । वेदेति प्रयोगस्य विदुर्लाभे' इत्यस्य छान्दसत्वेन भास्करीयैर्दर्शितत्वात् ।
"तमेव विदित्वातिमृत्युमेति नान्यः पन्थाः विद्यतेऽयनाये"ति [श्वेताश्वतरोपनिषत्, ३. ८, ६. १५] तु वाक्यं तत्त्वज्ञानस्याफ्वर्गसामग्रीनिवेशननियमपरं, न तु वाक्यान्तरावधृतकारणान्तरव्युदासार्थम् ।
ननु समुच्चये उपपत्तिविरोधः, तथाहि काम्यनैमित्तिकाभ्यां कर्मभ्यों न समुच्चयः तयोस्त्यागात् । न नित्येन, एकैकशो व्यभिचारात् । न साकल्येनासम्भवात् । नापि यन्याश्रमविहितेन, गृहस्थस्यापि मोक्षश्रवणादिति ।
मैवम् । निःश्रेयसहेतुतया प्रतिपादितैरेव यमादिभिः समुच्चयसम्भवात् । न च कर्मणां परस्परव्यभिचारात् , निःश्रेयसे च स्वर्गवद्वैचित्र्याभावान्न तत्प्रति कारणत्वमिति वाच्यम् । स्वाभाविकविशेषविरहेऽपि प्रतियोगिभेदेन विशेषस्य निःश्रेयसेऽप्यविरोधात् । एतस्य चाऽभावरूपकार्येऽवश्याभ्युपेयत्वात् । कथमन्यथाश्रयनाशपाकयो रूपनाशकारणत्वमिति । न.च ज्ञानस्य विहितत्वात् अदृष्टजनकत्वेनादृष्टस्यैव प्राधान्यम् । दृष्टेनैवोपपत्तावदृष्टकल्पनाऽयोगात् । न चावघातवन्नियमादृष्टकल्पना । तत्र वैतुष्यस्यान्यथाऽपि सम्भवेन नियमादृष्टकल्पना। अत्र तु मिथ्याज्ञाननिवृत्तेरन्यथाऽसम्भव इति विशेषादिति । .
अत्राहुः । यद्यपि तत्तत्कर्मविशेषस्यापवर्गकारणत्वं शब्दबलादवगम्यते, तत्त्वज्ञानस्य व्यापारत्वं न शाब्दं, तथापि न कर्मणस्तत्त्वज्ञाननिरपेक्षस्य मिथ्याज्ञानोन्मूलनव्यतिरेकेण कारणत्वं संसाराविच्छेदात् । तदुन्मूलनस्य तत्त्वज्ञानसाध्यत्वेन लोकत एवावधारणात् । तथा तत्त्वज्ञानमवश्यमपेक्षणीयम् । एवं च निःश्रेयसे जनयितव्ये यावत् तदनुकूलं जन्यं च तत्सर्व कर्मणे उपहर
१. P reads विदल लामे । २. Mg drops नियम० । ३. P reads काम्यनिषिद्धाभ्याम् । ४. M, drops कर्मभ्याम् । ५. P reads तत्त्वज्ञानस्य । ६. P reads अदृष्टकल्पनाया अयुक्तत्वात् । ७. P reads ०कल्पनात् । ८. Mg reads द्वारत्वम् ; P reads तत्त्वज्ञानव्यापारकत्वं । ९. P reads कर्मोपहरणीयम् , I.0. reads कर्मणोपहरणीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org