________________
शब्दप्रामाण्यवाद। तथा च किञ्चिदपि वाक्यं न' निराकाङ्क्ष स्यात् । समभिव्याहृतपदार्थविषया सेति चेत् , न, एतस्याः सर्वत्राभावात् । तथाहि अनिच्छन्नपि चक्षुरादेरिव वाक्यादन्वयमनुभवति । एवमपि सा ज्ञाता न कारणं भवति प्रमाणाभावात् । तथा च कथमनया मनस्संयोगादिनेव हेतुविशेषणीयः । न चान्वयानुपपत्तिराकांक्षा, अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र पुरुषान्वयेनाप्युपपन्नसमभिव्याहारस्ये राज्ञ इत्यस्य पुत्रे साकाङ्क्षताविरहप्रसङ्गात् । न चान्वयापर्यवसानं सापेक्षत्वं वाऽऽकाङ्क्षा । अनयोर्निर्वेक्तुमशक्यत्वात् । नाऽप्यविनाभावमाकाक्षां स्वीकुरुषे घटवद्भूतलमित्यत्राऽविनाभावाऽभावेप्यन्वयबोधदर्शनात् । यथाकथश्चिदविनाभावस्य गौरश्च इत्यादावपि भावात् ।
तस्माज्जिज्ञासां प्रति योग्यताऽऽकाङ्क्षा सा च समभिव्याहारविशेषः तथाभूते कदाचिज्जायते जिज्ञासा । सा च गौरश्च इत्यादौ नास्ति तेन कदाचिदपि समभिव्याहृतपदार्थविषयजिज्ञासाया अजननात् । एतदेवाभिसन्धायोक्तं "श्रोतरि तदुत्पाद्य संसर्गावगमप्रागभाव आकांक्षे"ति । [न्याय कुसुमाजलि, ३, १३ वृ] ___ न चैषाऽन्वयज्ञाने जनयितव्ये स्वज्ञानमपेक्षते तथात्वेऽपि वा व्याप्तिनिविषयतया वाक्यज्ञानस्यान्वयबोधजनकतायामेव कल्पनागौरवपराघातः । अपि च व्याप्तिसंशयेऽपि विशिष्टबोधस्य जायमानत्वात् ।
___ गुरूणां तु वैदिकवाक्यस्य स्वातन्त्र्येणैव प्रामाण्यं, 'लोके तु वक्तृज्ञानानुमानादेव संसर्गसिद्धौ तस्यानुवादकत्वमात्रमिति यदभ्युपगमस्तदतित्रपाकरम् । तथाहि आकाङ्क्षादिमत्तया तावत्संसर्गप्रत्यायकत्वं वैदिकवल्लौकिके"ऽपि साधीरणम् । न च लौकिके तात्पर्यग्रहापेक्षया विलम्बः । तात्पर्यग्रहस्यान्वयबोधानङ्गत्वात् तात्पर्यसंशयेऽपि वाक्यार्थबोधदर्शनात् । अन्यथा अर्थान् पक्षीकृत्य वेदेऽपि संसर्गानुमानसम्भवात् तस्याऽप्यनुवादकता स्यादित्यास्तां विस्तरः ॥८॥
१. P misses न but commentator शेषामन्त accepted the reading given above । २. Mg+P+I. O. drop भवति । ३. M, drops अनया । ४. P reads भाप्यविनाभाव आकाङ्क्षा । ५.न्यायकुसुमाञ्जलि chap III, verse 13. .. M. add एव । ७. P+MA read स च । ८. M, drops .ज्ञान। १. M.+I.O. read oगौरवेन पराघातः । १०. P+1.0 lead लौकिके । ११. P reads लौकिकवद् वैदिकेऽपि but शेषानन्त follows the reading we accepted here । १२. My reads समानम् । १३. MI reads (अ)पेक्षाविलम्बः । १४. I.O. adds इति शब्दस्वातंत्र्यवादाष्टमः, P reads इति शब्दस्वातन्त्र्यप्रामाण्यवादः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org