________________
(८) शब्दप्रामाण्यवादः । इह हि शब्दस्य स्वातन्त्र्येण प्रामाण्यमनिच्छन्तोऽनुमानान्तर्भावेन तत्प्रामाण्यमिच्छन्ति वैशेषिकादयः । तेषामयमाशयः । गामानयेति वाक्यश्रवणानन्तरमन्वयप्रतीतिस्तावदनुभूयते वाक्ये चाकांक्षादिमत्त्वप्रतिमंधानं तदर्थप्रतिपेत्यनुकूलतयाऽवधृतम् । तथा चाकांक्षादिमत्पदकदम्बकप्रतिसन्धानस्यावश्यकतया तस्य च स्मारितार्थसंसर्गविज्ञप्तिपूर्वकत्वनियमेनाऽनुमानादेवतत्फलसिद्धौ किमिति शब्दस्य प्रमाणान्तरत्वाभ्युपगमः । तथाहि एतानि पदानि 'स्वस्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्पदकदम्बकत्वात् । गामभ्याजेति पदकदम्बकवदिति ज्ञानावच्छेदकतया संसर्गसिद्धिरनुमानादेव सम्भवति । 'अत्रार्थपक्षकेऽनुमाने साक्षादेव संसर्गसिद्धिः। एवं हि तत् । एते पदार्था मिथःसंसर्गवन्त आकाङ्क्षादिमत्पदकदम्बकस्मारितार्थत्वात् गामभ्याजेति पदकदम्बकस्मारितपदार्थवत् । न च संसर्गविशेषासिद्धिः, प्रतियोगिन एव तत्र विशेषत्वात्, तस्य च पक्षधर्मताबलात् सिद्धयविरोधादिति ॥श्री॥
अत्रोच्यते । घटमानयेत्यस्य वाक्यस्य वक्तृज्ञानानुमापकत्वेऽपि तत्र प्रतियोगिविशेषोपरक्तसंसर्गगोचरत्वेऽपि न घटकर्मकानयनसिद्धिः । तत्र पक्षधर्मताया असामर्थ्यात् । घटानयनयोरन्यथाऽपि संसर्गसम्भवात् । एवमर्थपक्षकेऽपि दूषणमूहनीयम् । यत्र वा वक्तुर्न संसर्गज्ञानं शुकवद् वाक्यमात्रमसौ प्रयुङ्क्ते तत्र कथं वक्तज्ञानानुमापकत्वम् । न च तत्र संसर्गप्रत्यय एव न जायते, बाधाभावात् , प्रतीतेरनुभवसाक्षिकत्वाच्च ।
___ किश्च केयमाकाङ्क्षा यया हेतुर्विशेषणीयः । न तावत् प्रतिपाद्यजिज्ञासा घटो भवतीत्यस्य रूपादिविशेषाकाङ्क्षायां साकाङ्क्षत्वप्रसङ्गात् ।
१.P adds तत्र । २. M, reads प्रत्यय instead of प्रतिपत्ति । ३. P reads तस्य स्वस्मारित.। ४. P reads तदुत्पत्तिफलसिद्धौ । ५. P reads तात्पर्यविषयस्थस्मारित । ६. P+Mg drop अत्र । ७. P adds तापर्यविषयमिथः । ८. P+Mg+I. 0. drop पदकदम्बक० । ९. P+Mg drop तत्र । १०. Pnto गोचरत्वेऽपि घटकर्मकानयनासिद्धिः । ११. P.+Mg+I. O. read (अ)नुमानम् । १२. P+Mg+I. O. read बाधकाभावात् । १३. M. reads o (मा)काङ्क्षया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org