________________
शक्तिवादः।
२१ गृहधृतबहुघटमध्यादेकस्मिन् वहिरानीते घटेऽधुना गृहसंसर्गिघटभिन्नोऽयं घट इति व्यवहारोऽस्ति । न च तद्घटवृत्त्यन्योन्याभावस्य प्रतियोगितावच्छेदक घटत्वं, घटत्वस्य तत्राप्यनुयोगिनि वृत्तेः । तस्मादवश्यं तदन्योन्याभावस्य संसर्गः प्रतियोगितावच्छेदक इति स्वीकर्तव्यमिति वाच्यम् । अभावस्थले निरसनीयत्वात् । न च प्रतियोग्यवृत्तिसदातनाभावत्वं घटपटौ नायं घट इति व्यासज्यप्रतियोगिकान्योन्याभावेऽव्यापकमिति वाच्यम् । तस्याऽप्यभावस्थले निरसनीयत्वात् । न चाभीवस्य कारणत्वे मणेरकिञ्चित्करत्वेन प्रतिबन्धकत्वानुपपत्तिः। मणेः प्रतिबन्धकत्वाभावात् । किन्तु मण्यादिकमेव सामग्रीविघटनरूपं । तत्प्रयोक्ता पुरुषः प्रतिबन्धकः । न च विशिष्टस्यानतिरेके तदभावातिरेकानुपपत्तिः। प्रतियोगिभेदेनेवावच्छेदकभेदेनाप्यभावभेदस्वीकारात् ।
भवति हि केवलदण्डसद्भावे केवलपुरुषसद्भावे तदुभयाभावे च दण्डी पुरुषो नास्तीति व्यवहारः । विशिष्टाभावस्यातिरेकेऽपि कतमोऽसाविति चेत् न, तदनुपन्यासेऽप्यक्षतेः। अतिनिर्बन्धकरणेऽत्यन्ताभाव इति गृहाण । न चात्यन्ताभावस्य सदातनत्वादुत्तेजकापनये दाहप्रसङ्ग इति वाच्यम् । विशेषणाधन्यतमाभावस्य विशिष्टाभावप्रत्यासत्तित्वेनेष्टत्वात् । यद्वा विशेषणाधभावेनैव विशिष्टाभावव्यवहारोपपत्तौ नातिरिक्त विशिष्टाभावकल्पनम् । न चानुगमाभावः विशिष्टविरोध्यभावत्वेनेवानुगमात् । न च किश्चित्प्रतिबन्धकसद्भावे प्रतिबन्धकान्तराभावमादाय दाहापत्तिरिति वाय, प्रतिबन्धकसजातीयासमानाधिकरणप्रतिबन्धकसंसर्गाभावस्य कारणत्वात्। तथैवाऽन्वयव्यतिरेकाभ्यामवधारणात् । परेणापि शक्ति प्रति प्रतिबन्धकाभावहेतुतायो व्यवस्थाप्यत्वात् । प्रहरं मा दहेत्यादौ तु तथाभूताभिप्रायविषयसमयस्यैव प्रतिबन्धकत्वं, तथा च नातिप्रसङ्गः ।
न च तार्णादावैकजातीयप्रयोजकतया शक्तिस्वीकारः । शक्तिं विनाऽपि पवनादिकारणादेवोपपत्तेः। शक्तिवादिनाऽपि विजातीयानां कारणानामेकजातीयशक्तिमत्वस्यानभ्युपगन्तव्यत्वात् । अन्यथा कार्यविशेषात् कारणविशेषानुमानं कारणविशेषाभावात् तत्कार्यविशेषाभावानुमानं च कचिदपि न
१. P reads (अ)न्योन्याभावत्वव्यापकम् । २. P reads न चाभावकारणत्वे । ३. P reads विघटन । ४. P adds अपि । ५. P read विशेषणाद्यन्यतमाभावेन । ६ P drops वाच्यं । ७. Mg drops संसर्ग० । ८. my drops प्रति । ९. P adds च । १०. P reads जात्यप्रयोजकतया । ११., my drops •विशेषand o(अ)भाव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org