________________
न्यायसिद्धान्तदीपे व्यभिचारात् । अन्यस्यानुगतस्याभावात् तृणादीनामेकशक्तिमत्त्वं प्रयोजक वह्नित्वे' स्वीकर्त्तव्यम् ।
किश्च । पिपासोपशमनसमर्थमिदं जलं जलवादित्यत्र सामर्थ्य तावदनुमीयते । तत्तावन पिपासोपशमनकारणत्वम् । तद्धि पिपासोपशमनस्वरूपयोग्यत्वं वा । सहकारियोग्यत्वं वा । नाद्यः। स्वरूपयोग्यत्वस्य प्रत्यक्षेणैव ग्रहात् । न द्वितीयः । व्यभिचारात् । न हि सर्व जलं पिपासोपशमनसहकारियोग्यं भवतीति नियमः। तस्मात् सामर्थ्य कारणत्वातिरिक्तमनुमेयं, तदेवं च शक्तिः ।
एवं व्यस्थितेऽनुमानमप्युच्यते । अयं वह्निाहानुकूलातीन्द्रियैकवृत्तिधमंसमवायो दाहकारणत्वादात्मवत् । न चात्मत्वमुपाधिस्तेजोद्वयणुक एव साध्याव्यापकत्वात् । अत्रापि दाहानुकूलस्यातीन्द्रियस्पर्शस्य विद्यमानत्वात् न चासौ न दाहहेतुः । उद्भूतोष्णस्पर्शमात्रस्यैव तत्त्वात् । यद्वा करतलानलसंयोगः कार्यानुकूलातीन्द्रियधर्मसमवायी कारणत्वादात्मवत् । अत्रात्मत्वोपाधेः साध्याव्यापकत्वं स्फुटमेव । न च द्रव्यत्वमुपाधिः। धर्माधर्मादौ साध्याव्यापकत्वात् । अत्र धर्मत्वादेरेव तथाभूतस्य विद्यमानत्वात् । न चातीन्द्रियप्रतियोगिकसादृश्येन सिद्धसाधनम् । सादृश्यपदार्थस्याभावान्तर्भावेनासमवेतत्वात् । वह्निः कार्यानुकूलाऽतीन्द्रियैकवृत्तिधर्मसमवायी कारणत्वादात्मवदिति वा ।। छ । __एवं प्राप्तेऽभिधीयते । अन्यथाऽनुपपत्या शक्तिः कल्पनीया । न चात्र सा, प्रतिबन्धकाभावेनोपपत्तेः । न चाऽन्योन्याभावमादाय अतिप्रसङ्गः प्रागभावत्वादिनाऽननुगमो वा संर्गाभावत्वेन कारणत्वे तयोनिरासात् । न चान्योन्याश्रयः, मण्यादिसंसर्गाभावत्वेनैवोपस्थिते कारणत्वग्रहस्य मुकरत्वात् ।
न चान्योन्याभावसंसर्गाभावयोरभेदः। आपाततः संसर्गावच्छिन्नप्रतियोगिकाभावत्वप्रतियोग्यवृत्तिसदातनाभावत्वयोर्ध्यावर्तकयोविद्यमानत्वात् । न च संसर्गावच्छिन्नप्रतियोगिकाभावत्वमन्योन्याभावविशेषेऽतिप्रसक्तम् । तथाहि
१. P reads वह्निजनकत्वे । २. P drops जलम् । ३. P reads तदपि । ४. P reads प्रहणात् । ५. Pn reads सैव । ६. M. drops अयं । ७. P reads अतीन्द्रियस्य स्पर्शस्य । ८. Pn reads तथात्वात् । ९. Pn reads प्राप्ते ब्रमः । १०. I. O.+MI read अन्यथाऽनुपपत्त्यादिशक्तिः । ११. I.O.adds वक्तुं । १२. Pn drops भापाततः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org