________________
शक्तिवादः। प्रतिबन्धकत्वं हि कार्यानुकूलकिश्चिद्धर्मविघटकत्वं, न च मणिः किश्चिदनुकूलं. विघटयति स्वत एवानुकूलविघटनरूपत्वात् । किञ्च, प्रतिबन्धकसद्भावेऽप्युत्तेजकसमवधाने दाहदशेनात् कथं व्यभिचारात् प्रतिबन्धकाभावस्य कारणत्वं, न चोतेज सद्भावेन प्रतिवन्धकसद्भावः । उत्तेजकाभावविशिष्टप्रतिबन्धकामावस्तर्हि कारणं, विशिष्टं च विशेषणविशेष्यतत्सम्बधातिरिक्तं नास्ति । तथा च विशेषणविशेष्यतत्सम्बन्धाभावाः प्रत्येक कारणं मिलिता वा । नाद्यः । प्रत्येक व्यभिचारात् । न द्वितीयः। अभावमेलकाभावेऽपि दाहदर्शनात् । न च विशिष्टाभावोऽतिरिक्त एवेति वाच्यम् । विशिष्टस्य हि विशेषणाद्यनतिरेके विशिष्टाभावस्य विशेषणाद्यभावातिरेके का प्रत्याशा ? । न च विशिष्टमतिरिक्तमेव । प्रतिक्षणं यत्किश्चिदविशेषणावश्यकत्वेन क्षणभङ्गप्रसङ्गात् प्रत्यभिज्ञानं च कचिदपि न स्यात् । विशेषगादिनैव विशिष्टव्यवहारोपपत्तावतिरिक्तविकल्पना
योगाच्च ।
किञ्च, मण्यादिसमवधानदशायामुत्तेजकसद्भावे यो दाहो जायते स किं प्रतिबन्धकप्रागभावंत उत प्रतिबन्कध्वंसात् तदत्यन्ताभावाद्वा । न तावदाधः। असिद्धेः । प्रागभावस्य कार्यकोन्ने यत्वात् । न द्वितीयः । उत्तेजकापनयेऽपि दाहप्रसङ्गात् । ध्वंसस्य विद्यमानत्वात् । अत एव न तृतीयः । अत्यन्ताभावस्य नित्यत्वादुत्तेजकापनयेऽपि दादप्रसङ्गात् । किञ्च, न मण्यादिसंसर्गाभावत्वेन कारणत्वं, तथा च तत्समवधानेऽपि यत्किश्चिन्मणिसंसर्गाभावमादाय दाहप्रसङ्गात् । न हीतरसमवहितदण्डसमवधाने दण्डान्तरविलम्बेन कार्यविलम्बो दृश्यते ।
किञ्च, प्रहरं मा दहेत्यादौ मन्त्रस्य प्रतिबन्धकत्वं वाच्यम् । तथा च तदभावस्य कारणत्वे प्रहराभ्यतर एव दाहः स्यात् । मन्त्रस्य शब्दरूपतयाऽऽशुतरविनाशित्वात् । किञ्च, तार्णादो वतित्वमैयोजकं न तृणत्वादिकं १. P reads .विशेषणावच्छेदकत्वे । २. P reads (अ)तिरिक्तकल्पनायोगाच्च । ३. Pn reads समवधाने । ४. P reads . प्रागभावात् । ५. Pn reads उत्तेजकापनयेऽपि ध्वंसस्य विद्यमानत्वाद्दाहप्रसङ्गात् । ६. I.O. + P read सदातनत्वात् । ७. Pn reads उत्तभक० । ८. P reads मण्यादिसंसर्गाभावस्य संसर्गाभावत्वेन । ९. P reads तथा चेतरसमवधानेपि यत्किञ्चित्मगिसंसर्गाभावमादाय मणि समवधानेपि । १०. Pn reads न होतरदंडसमवधाने । ११. P leads वह्निजनकताप्रयोजनकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org