________________
न्यायसिद्धान्तदीपे
(५) शक्तिवादः। _ अथ शक्तिः। तत्र विप्रतिपत्तिः । अयं बह्निाहानुकूलाऽतीन्द्रियाद्विष्ठधर्मसमवायी न वा। अनुकूलत्वं च कार्याभावनियताभावप्रतियोगित्वं कारणतदवच्छेदकोभयसाधारणम् । अतीन्द्रियत्वं च साक्षात्कारत्वनियामकप्रत्यासत्यनाश्रयत्वम् । यद्वा वह्निनिष्ठदाहकारणत्वमतीन्द्रियधर्मावच्छेद्यं न वा। .
तत्र परेषामयमाशयः । यादृशादेव करतलानलसंयोगादाहो जायते तादृशादेव सति प्रतिबन्धके न जायते । प्रतिबन्धकत्वं च कार्यानुकूलकिञ्चिद्धर्मविघटकत्वमेव । तत्र न प्रतिबन्धकस्य दृष्टविघटकत्वम् । दृष्टस्य पूर्ववत् प्रमाणसिद्धत्वात् । न चादृष्टविलम्बात् कार्यविलम्ब इति वाच्यम् । दृष्ट कारणकलापे सत्यदृष्टविलम्बस्यासिद्धत्वात् । अन्यथा सत्यष्यन्त्यतन्तुसंयोगे कदाचित् पटानुत्पत्तिप्रसङ्गात् । सत्यपि कर्मणि वा कदाचिद्विभागानुल्पत्तिप्रसङ्गात् । तस्मादतीन्द्रियकिंचिद्दाहानुकूलविघटकत्वं प्रतिबन्धकत्वं मण्यादेरन्यथाऽनुपपत्त्या कल्पनीयमित्यर्थापत्तिरेव शक्ती प्रमाणम् ।
न च प्रतिबन्धकाभावेनान्यथासिद्धिः अभावस्यातिरिक्तस्य मयाऽनङ्गीकारात्, अङ्गीकारे वा कारणत्वस्य भावत्वव्याप्तत्वात्, भावत्वस्याभावे निवृत्त्या कारणत्वस्यानिवृत्तः । किञ्च । न प्रतिबन्धकाभावत्वेन कारणत्वम् । अन्योन्याश्रयप्रसङ्गात् । प्रतिबन्धकत्वं हि कारणीभूताभावप्रतियोगित्वं, तच्च कारणत्वग्रहाधीनग्रहं, कारणत्वं च तद्ग्रहाधीनग्रहमिति । नापि मण्याधभावत्वेन । मणिसमवधानेऽपि तदन्योन्याभावमादाय दाहप्रसङ्गात् । नापि मणिप्रागभावत्वेन । उत्पन्नविनष्टे मणौ दाहानुत्पादपसङ्गात् । नापि मणिप्रध्वंसत्वेन । अनुत्पन्ने मणौ दाहानुत्पादप्रसङ्गात् । नापि मण्यत्यन्ताभावत्वेन उत्पन्न विनष्टे मणावत्यन्ताभावस्य तदाऽभावात् । नापि मण्यादिसंसर्गाभावत्वेन । अन्योन्याभावातिरिक्तस्य संसर्गाभावस्य निवक्तुमशक्यत्वात् ।
तथाहि-तत् संसर्गाभावत्वं संसर्गप्रतियोगिकाभावत्वं वा तादात्म्यातिरिक्तप्रतियोगिकामावलं वा । अन्यद्वा । नाद्यः । संसर्गान्योन्याभावेऽतिव्याप्तत्वात् । न द्वितीयः। तादात्म्यात्यन्ताभावेऽव्यापकत्वात् । नान्त्योऽसम्भवात् । किश्च । मण्यभावस्य कारणत्वे मणेः प्रतिबन्धकत्वं न स्यात् ।
१. P reads सहजशक्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org