________________
पदशक्तिवादः । रन्वयबोधदर्शनाच्च । न हि तात्पर्यज्ञानं वाक्यार्थप्रतिपत्तिजनकमिति प्रतिपादितमधस्तात् । न च जातिप्रत्ययानन्तरमत्र व्यक्तिप्रतीतिः किन्तु युगपदेव । न च गौरवभयेन ऊमकल्पनम् । प्रमाणवतो गौरवस्यापि न्याय्यत्वात्
किश्च, जातौ निर्विकल्पोपस्थितायां न शक्तिग्रहः किन्तु सविकल्पोपस्थितायां, जातौ च विशेषणं व्यक्तिरेव । अन्यद्विशेषतो नावधारितमिति नागृहीतविशेषणान्यायस्य वैपरीत्यमापतितम । एवं च जातेः स्मरणमपि सविकल्पकतया विशेषणापेक्षं, विशेषणं च तत्र व्यक्तिरेवेति समानसंविसंवेद्यतया कथमाक्षेपः । नान्वयप्रकारकतया व्यक्तेर्भानमपि तु प्राधान्येन । किश्च पदार्थोपस्थितावन्वयप्रकारता स्यात् । व्यक्त्या विना तु जात्युपस्थितिरेव नास्तीति कस्यान्वये व्यक्तिः प्रकारः स्यात् । समानसंविसंवेद्यतानियमेऽपि जातौ शक्तिर्न व्यक्ताविति चेन्न । शक्तिर्हि सामर्थ्य, तच्च कार्यापेक्षम् । कार्य चात्र ज्ञानात्मकमेकमेवेति क्वें गौरवम् । न च जातिविषयतया ज्ञानं कार्य न तु व्यक्तिविषयतयेति वाच्यम् । उभयविषयकं ज्ञानं पदजन्यमित्यस्यैव तदर्थत्वात् । किञ्चास्मन्मते पदानां शक्तिः सङ्केतो न तु पदार्थान्तरं, स च व्यवहारवलेन जाती व्यक्तावपि गृह्यते । न हि गोपदाज्जातिमात्रं वाऽव हयते न तु व्यक्तिरिति युक्तिमत् । तस्मात् सङ्केतग्राहकस्य जातिव्यक्तिसाधारणस्य प्रमाणसिद्धत्वादुभयत्रापि सङ्केतरूपा शक्तिरिति न किश्चिदनुपपन्नम् । एतेन गुरूणामर्द्धजरती निरस्ता। स्वरूपसत्याः शक्तेः पदार्थोपस्थित्यनङ्गत्वात् तदर्थमेव च तस्याः कल्पनात् । अन्यथा जातावपि स्वरूपसत्येवास्तामिति अस्यापि वाचावचसोऽवकाशप्रसङ्गात् । तस्माज्जातिवद् व्यक्तिरपि यथासम्भवमाकृतिरपि पदार्थ इति निर्धार्य सूत्रितमक्षपादेन 'व्यक्त्याकृतिजातयस्तु पदार्थाः' [ न्यायसूत्र २. २. ६६] इति तदेव युक्तमिति सर्व समजसम् ॥४॥
१. Ma reads .प्रतीत्यनन्तरम् । २. P+I.O. read भ्रमकल्पनम् । ३. P drops विशेषतो नावधारितमिति ना... । .P reads विशेषणसापेक्षम् । ५. Ma reads कथम् । ६. M, reads नये instead of मते । ७. Mg reads जातिवद् व्यक्तावपि । ८. P reads वाचालवचसः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org