________________
न्यायसिद्धान्तदीपे तदा जातौ विशेषो व्यक्तिरेव, तस्याश्च भानं जातिज्ञाने वृत्तमेवेति किं केनाक्षेप्तव्यम् । मैवम् । किंचिद्धि वस्तु स्वत एव विलक्षणमिति न्यायेन जातेः स्वत एव विलक्षणत्वात् । अन्यथा अन्योऽन्याश्रयानवस्थाप्रसङ्गाद् व्यक्तेः प्राधान्यानुभवाल्लक्षणा व्यक्तौ आक्षेपे तूपसर्जनता स्थादिति तदेकदेशिनैः । तदाहुः
"जातास्तित्वनास्तित्वे न हि कश्चिद् विवैक्षति ।
नित्यत्वाल्लक्षणीयाया व्यक्तस्ते हि विशेषणे ॥" [ श्लोकवार्ति, वाक्याधिकरण-३११] इति ।।
विशिष्टगोचरा एकैव शक्तिः किन्तु जातिनिष्ठतया सा ज्ञातोपयुज्यते व्यक्तौ तु सा स्वरूपसती । समानसंविसंवेद्यतया व्यक्तेरपि भानमिति गुरुमततत्त्ववेदिनः । व्यक्तेरन्वयप्रकारतया भानमिति गुरुमतैकदेशिनः । अनुमानं त्वगोव्यक्त्याकृती न गोशब्दवाच्ये गोत्वमिन्नत्वात् घटवदिति॥श्रीः॥
अत्रोच्यते । गामानयेति वाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य गवानयने प्रवृत्तिदृश्यते तावत् । सा च गवानयनज्ञानसाध्या, तच्च ज्ञानं गामानयेतिवाक्यजन्यम् । वाक्यजे , ज्ञाने पदोस्थपापित एवार्थोऽन्वयप्रतियोगितया भासते इति व्यवस्थापितं योगरूढिस्थले । तथा च गोपदाद् गोव्यक्तेरनुपस्थितौ कथमन्वयप्रत्ययः । आक्षेपोपस्थितस्य वाक्यजन्यप्रत्ययेऽन्वयप्रतियोगित्वाभावात् । अन्यथा घटमानयेति वाक्यं रूपसंख्यापरिमाणपृथक्त्वादिकमाक्षिप्य "त्वन्वयबोधमादध्यात् । न चैवं, तथानुभवाभावात् । किं चाक्षेपे व्यक्तः प्राधान्येन भान" न स्यात् । न च लक्षणया तदुपस्थितिरिति वाच्यम् । शक्यार्थव्यवहितव्यक्तिबुद्धरत्रासिद्धः ।
किञ्च यत्र जात्यन्वयानुपपत्तिर्नास्ति गां पश्य घटं पश्येत्यादौ तत्र कथं व्यक्तिलाभः, लक्षणाया अभावात् । व्यक्तितात्पर्यव्यतिरेकेणाऽपि व्यक्ते
१. Pn+M., drops अन्योन्याश्रय । २. P+M,+I.O. read भाटेकदेशिनः । ३. मुद्रिते लोकवार्तिके-आतेरिति पाठः । १. Mg+I.O. read कोऽपि । ५. M, reads विवक्ष्यति । ६. मुद्रिते-लक्ष्यमाणाया इति पाठः । ७. P reads (ल)क्षणीयायास्ते fg qvafastarit 16. M, adds f69 here. I S. P reads azafata, I.O. reads इति संक्षेपः । १०. P+I.O. drop च । ११. P reads वाक्यजप्रत्ययान्वयप्रतियोगित्वाभावात् , I.O. reads वाक्यजन्यप्रत्ययान्वयप्रतियोगिताभावात् । १२. P+I.O drop तु here । १३. P reads विदध्यात् । ११. Pn reads ज्ञानं instead of भानं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org