________________
૨૨
न्यायसिद्धान्तदीपे स्यात् । तज्जातीयशक्तिमतोऽन्यस्मादपि तत्कार्योत्पत्तिसम्भावनाया: जागरुकत्वात् । तथापि तृणादीनां वह्नि प्रति कथं कारणत्वग्रहः । तेषां दहनमात्रं प्रति व्यभिचारात् । दहनाऽवान्तरविशेषस्य च कारणतामहोत्तरकालीनत्वात् । न च तृणाद्यन्यतमत्वं नियामकं, विशकलितसमवधानेऽपि कार्योत्पादप्रस गात् । व्यक्तिविशेषान्वयव्यतिरेकयोः रासभादिसाधारणत्वादिति। मैवं, तुल्यत्वात् तवापि नैकशक्तिमत्त्वेन कारणत्वं गृह्यते । किन्तु कारणत्वग्रहानन्तरं शक्तिकल्प युक्तम् । अन्यथा रासभस्यापि वनिशक्तिकल्पनाप्रसङ्गात् । तथापि यदि सुहृद्भावेन पृच्छसि तदोच्यते-यज्जातीयमेलकोत् तृणासमवधाने कार्य न जायते तज्जातीयमेलकादेव तृणसमवधाने जायत इत्येवंरूपाऽन्वयव्यतिरेकाभ्यामेव तदवधारणात् । न चैतत् रासभादिसाधारणं, तृणासमवहिते तस्मिन् मेलके रासभसमवधानेऽपि कार्यानुत्पादनात्, दण्डव्यतिरेकेणापि पटोत्पत्तिदर्शनवत् तृगव्यतिरेकेऽपि दहनोत्पत्तिदर्शनात् कथं तृणकारणताग्रह इति चेन्न । एभूतव्यभिचारग्रहस्य पूर्वोक्तान्वयव्यतिरेकापरिपन्थित्वात् । यत्र तु न तथाभूतान्वयव्यतिरेकग्रहस्तत्र तथाभूतव्यभिचारस्य विरोधित्वात् । अन्यथा वह्नयर्थिनां तृणादिषु निःशकं प्रवृत्त्यनुपपत्तेः । यद्वा प्रदीपादिष्ववान्तरजातिभेदस्य प्रत्यक्षसिद्धत्वात् विशिष्यवान्वयव्यतिरेकाभ्यां कारणत्वग्रह इति न किश्चिदनुपपन्नम् ।।
पिपासोपशमनसमर्थ जलमित्यादौ सहकारिविरहप्रयुक्तकार्याभाववत्त्वमेवानुमेयं तथाचैतदनुरोधेनापि न शक्तिसिद्धिः। ननु दीपस्य बीजोपरिनयनम् अङ्गुरप्रतिबन्धकम्, अन्यथा तदनन्तरम् अङ्कुरोत्पादप्रसङ्गात्, तस्मादगत्याङकुरोत्पादानुकूलं बीजनिष्ठं किश्चिदतीन्द्रियं दीपोपरिनयनस्य विनाश्यमवश्यं स्वीकरणीयमिति । मैवम् । दीपोपरि सम्बन्धात्यन्ताभावास्यानादितत्संसर्गाभावस्य वा कारणत्वात् । न चानुमानात् शक्तिसिद्धिः। प्रथमानुमानेऽचाक्षुषद्रव्यत्वस्योपाधेः" सत्त्वात् । द्वितीयानुमाने प्रत्यक्षगुणान्यत्वस्य
१. P+mg drop तत्० । २. P reads ग्रहोत्तरकल्प्यत्वात् । ३. P+m, read न चान्यतमत्वं । ४. ma drops यदि । ५. ma adds एन । ६. m, adds च । ७. P reads कार्यानुत्पादात् । ८. Pn+m1 read तथा व्यभिचारस्य । ९. ma has दीपादि । १०. P+mg read नाजुकुरप्रतिबन्धकं तदनन्तरमंकुरोत्पादप्रसङ्गात् ११. P reads (उ)राधित्वात्, Pa has अदव्यद्रव्यत्वस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org