________________
न्यायसिद्धान्तदीपे सङ्कोच्यतामिति वाच्यम् । तथा सति गौरवप्रसङ्गात् । तथाहि । तमो द्रव्यान्तरं कल्पनीयम् । तत्र रूपवत्वे सति नि:स्पर्शत्वं' कल्पनीयम् । उद्भूतनीलरूपवत्वे वाऽनुद्भूतस्पर्शवत्त्वम् । निःस्पर्शस्य वा कथमारम्भकत्वम् । तत्र स्पशेवद्व्यत्वस्य प्रयोजकत्वात् । मूर्तत्वापेक्षया' तस्य लघुत्वात् । आलोकाभावव्यङ्गयत्वमधिकमेव कल्प्यम् । न च पृथिव्यादीनामप्येवमभावत्वापत्तिरिति वाच्यम् । तत्र गन्धादेनन्यथासिद्धस्य गुणस्य द्रव्यत्वव्यवस्थापकत्वात् । तमसस्तु न तथाभूतो गुण उपलभ्यते । उपलभ्यमानस्त्वन्यथासिद्ध एव । कथं वा विशेषगुणयोग्यतामन्तरेण प्रत्यक्षमूर्तत्वमप्यस्य । भावधर्मारोपोऽप्यभावत्वानुपस्थितिदशायामुपपद्यते अभावत्वानुपस्थितिस्तु दोषवशादेव समर्थनीया, दोषस्तु तथाभूतवस्तुस्वरूपमेव अदृष्टादिकमेव वा । पद्मरागादिप्रभायां चलनबुद्धेराश्रयचलनानुविधायितानियमो नास्त्येव कारणवशादन्यत्रापि प्रभाचलनोपलम्भात् ।
यद्वा" तमो यदि गतिमत् स्यात् तेजोऽभावाविषयकचाक्षुषसाक्षात्काराविषयो न स्यात् । तथा यदि तमस्तेजोभिन्नत्वे सति गतिमत् स्यात् "तेजोविषयकचाक्षुषसाक्षात्कारविषयगतिमत् स्यात्"-इत्यत्र तात्पर्यात् । न च प्रतियोगिग्रहानुपपत्तिः सर्वत्र तथाकल्पनात् । तमोमात्रव्यवहारस्तु प्रौढप्रकाशकयावत्तेजःसंसर्गाभावनिबन्धन एव । दोषवशात् प्रतियोगिनोऽनवभासनेऽपि तेजोभावावभासाविरोधात्" । अभावत्वग्रहे हि प्रतियोगिग्रहापेक्षणात् । तत्र राशिष्विव कश्चित् समुदायिव्यतिरेकप्रयुक्त एव विनाशप्रत्ययः एवमुत्पत्तिप्रत्ययोऽप्यूह्यः । नीलरूपारोपविशिष्टतेजें:संसर्गाभावस्तम इति केचित्" । अत्र चाक्षुषप्रत्ययः कथमिति चिन्त्यम्" ।
१. I. O. reads रूपवत्त्वेपि निःस्पर्शत्वकल्पनम् , P reads • निःस्पर्शवत्वकल्पनम् , M, reads रूपवत्त्वे निःस्पर्शकल्पना । २. Ma reads च instead of वा । १३. MI + I. O. drops वा । ४. Ma reads स्पर्शवत्त्वस्यै; M1 reads स्पर्शद्रष्यस्य । ५. M1 reads मूर्तापेक्षया । ६. Mg+I.O. add भपि here । ७. P reads कल्पनीयम् ; I.O reads कल्पनाहम् । ८. Mg reads पृथिव्यादेः instead of गन्धादेः । ९. I. O. drops गुणस्य । १०. P. reads तथा instead of प्रभा० । ११. Ma drops यद्वा । १२-१२ M1 drops this portion. M, reads तेजोऽभावविषयक. commentator शेषानन्त supports the reading accepted here । १३. P+Mg reads .विरोधाचन । १४. M + M, + I. O read किभिवत् । १५. Ma drops तेजः । १६. Ma+Pa read कश्चित् । १. P reads तच्चिन्त्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org