________________
अन्धकारवादः ।
अनुभूतस्पर्श एव वा' कल्प्यताम् । न चोद्भूतनीलरूपस्योद्भूतैस्पर्शसामानाधिकरण्यनियमः। पृथिव्यामेव तथात्वात् । एवं रसानुद्भवोऽपि कल्प्यताम् । तेजोवन्नीरसत्वमेव वाऽङ्गीक्रियताम् । तेजोऽभावत्वे तु कथं गत्यादिप्रत्ययः। अभावत्वेनोपस्थिते भावधर्मानारोपात् । अन्यथा तदनुपस्थितेरारोपासम्भवात् । न च स्वाभाविकगतेरन्यथागत्यनुविधानानुपपत्तिः । आश्रयचलनाऽनुविधानस्य पद्मरागप्रभायामेव दर्शनात् ।
किञ्च तेजोऽत्यन्ताभावरूपत्वे तमसि उत्पन्नादिव्यवहारों न स्यात् । प्रागभावरूपत्वेऽपि तथा । ध्वंसत्वे तु विनाशित्वं न स्यात् । अन्योन्याभावत्वे तथा" । अपि च तमसि नीलसाक्षात्कारस्य भ्रान्तत्वेऽनीलं तम इति विपरीतसाक्षात्कारोऽपि स्यात् । न चाऽयं कदाचिदपि" कस्यापि भवति । प्रत्युत योगिनोऽपि तत्र नीलप्रत्यय एवोन्नीयते । नीलत्वेनाप्रतीयमाने च' तस्मिस्तमोव्यवहार एव न भवति । नात्राऽऽलोकः किं पुनरन्धकार इति व्यवहाराच्च आलोकाभावातिरिक्त" एवान्धकार इति पूर्वपक्षसंक्षेपः" ।
अत्रोच्यते । यद्यपि भावत्वतन्नियतधर्मप्रकारिका प्रतीतिस्तमोविषयाऽनुभवसिद्धा तथापि तेजोव्यतिरिक्तभावगोचरचाक्षुषसाक्षात्कारस्य" विषयसंस्कारकबाह्यालोकापेक्षानियमावधारणबलेन भ्रान्तत्वकल्पनमेव युक्तम् तस्याः । न च तेजोव्यतिरेकवत्तमोव्यतिरेकेण विशेषणीयमिदम् । तेजोद्रव्यत्वस्यानन्यथासिद्धप्रमाणावधृतत्वात् । न च तमोव्यतिरेक एव तेज आस्तामिति वाच्यम् । तथा सत्युष्णस्पर्शभास्वररूपाश्रयद्रव्यान्तरकल्पनापातात् । अन्यथा कस्य रूपारोप॑स्तेजसि स्यात् । तमसि तु क्लुप्तस्यैव नीलरूपादेरारोप इति नै कल्पनागौरवम् । न च तमोऽभावत्वग्रहात् नियततेजोऽपेक्षैव
१. Mg drops वा। २. MI drops (उ)द्भूतनीलरूपस्य । ३. P reads (आरोपासम्भवात् । ४. Preads अन्यथा तदनुपस्थिते: भावधर्मारोपासम्भवात् and puts this sentence in parenthesis (......)। ५. Ma reads स्वाभाविकगता. वन्यगत्यनुविधानानुपपत्तिः । ६. M+Mg reads तमसः। ७. P reads उत्पन्नव्यवद्वारो: M.+I. Oread उत्पन्नत्वादिव्यवहारो। ८. I. O. reads प्रागभावत्वे । ९.M. reads तथा ध्वंसे विनाशित्वं न स्यात्; Pn reads विनाशितत्वं न। १०. P+M, read अन्योन्याभावेऽपि तथा । ११. M, reads कदापि कस्यापि संभवति । १२. P योगिनोपि नोलप्रत्यय एव तत्रोन्नीयते, M, योगिनोपि नीलप्रत्यय एवोन्नीयते। १३. MIdrops च । १४. Preads स्यात् instead of भवति । १५. M, reads व्यवहारादालोकाभावातिरिक्त । १६. P reads इति पूर्वपक्षः । १७. M. reads गोचराच्चाक्षुषसाक्षात्कारस्य। - १८. P drops तस्याः, Pn adds तस्याः प्रतीतेः । १९. M, reads तेजोद्रव्यस्य । २० Mg +I. O. read कस्यारोपः । २१, Mi drops this. impotant न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org