________________
न्यायसिद्धान्तदीपे
बाह्यालोकस्य संस्कारकत्वम् । संयोगत्वेस्यातन्त्रत्वात् । तस्माच्चाक्षुषभावसाक्षात्कारमात्र एव बाह्यालोकापेक्षेत्याहुः ।
८
तन्न । तथाहि—–अन्वयव्यतिरेकाभ्यां घटादिचाक्षुषसाक्षात्कारे बाह्यालोकसम्बन्धस्य कारणता गृह्यते । सा च न सम्बन्धिसम्बन्धत्वेन, परम्परासम्बन्धेऽपि कार्योंदयप्रसङ्गात् । नापि संयोगसमवायसाधारणेन' साक्षात्सम्बन्धत्वेन, तस्यैवानिर्वचनात् । निर्वचनेऽपि वा तदपेक्षया संयोगत्वस्यैव लघुत्वात् । तथा च संयोगत्वमेव तन्त्रम् । न च तेजोग्रहेऽपि बाह्यालोकसंयोगापेक्षैव चक्षुषः महालोकस्यावयवावयवसंयोगसम्भवेऽपि तेजश्चतुरणुके तदवयवावयवस्यायोग्यत्वेन तथाभूतसंयोगाद्यभावात्" । 'तेजश्चाक्षुषसाक्षात्कारे तथाभूतालोकसम्बन्धव्यतिरेकात् क्वचिदपि न व्यतिरेकसिद्धिरित्याद्यूह्यम् ।
प्रमाणबलात् तेजोव्यतिरिक्तत्वेन विशेषणीयमिति यदि तदा " तमोव्यतिरेकेणापि प्रमाणबलादेव विशिष्यताम् । प्रत्युत एतस्य बाह्यालोकव्यतिरेकसहकृतचक्षुर्ग्राह्यत्वावधारणवलेन पृथिव्यादेर्वाह्या लोकसापेक्षचक्षुर्ग्राह्यत्वाद भावत्वं त्यज्यताम् । इन्द्रियान्तरमेव वा तमोग्राहकमस्तु । अत एव तामसा - दिन्द्रियादन्धतमसेऽपि पेचकादीनाम् सततं तत्तद्वस्तुग्रहः ।
17
१३
स्यादेतत् । तमः किं नित्यमनित्यं वा । आधे रूपवतो नित्यस्याचाक्षुषत्वप्रसङ्गात् । द्वितीये त्वारभ्यं स्यात् । न च निःस्पर्शद्रव्यस्यारम्भकत्वम्" । द्रव्यसमवायिकारणतायां स्पर्शद्रव्यत्वस्य" प्रयोजकत्वात् । न च मूर्त्तत्वमेव तत्र प्रयोजकम्" । मनसोऽप्यारम्भकत्वप्रसङ्गात् । एतदपि न । रूपवश्वेन नित्यत्वेऽपि त्रुटेश्वानुपत्वस्वीकारात्" । मनसि मूर्त्तत्वानङ्गीकारात् ।
१. M 1 reads संयोगस्य । २. P drops तथाहि । ३ preads • साधारण साक्षात् सम्बन्धत्वेन । ४. Preads तन्निर्वचने । ५. M1+ Mg read संयोगस्यैव । ६. P reads तदवयवावयवसंयोगस्य । ७. M 1 reads • संयोगाभावात् । ८. Padds न च here. M 1 reads तेजश्चाक्षुषसाक्षात्कारस्य । १०. P+Mg read तथाभूतालोकसम्बन्धस्य व्यभिचारात् । ११. P. reads तर्हि for तदा । १२. P+M 1 drop सततं । १३. P reads प्रसङ्गः । १४. Pnreads निःस्पर्शस्य द्रव्यस्य । १५. P. reads स्पर्शवद्रव्यत्वस्य, Mg reads स्पर्शवत्त्वस्य । १६. Mgreads तत्प्रयोजकम् । १७. P reads चाक्षुषत्वाभ्युपगमात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org