________________
अन्धकारवादः द्भूतस्पर्शस्य योग्यत्वादिति चेन्ने । गृह्यत एव विविच्य न गृह्यते सूक्ष्मत्वादिति प्राश्चः। अनेन रूपेण स्पर्शयोग्यतै नास्ति । किन्तु महत्त्वविशेषसामानाधिकरण्येन स च विशेषः कार्यैकोन्नेयः । अत एव सरेणुस्पर्शस्यायोग्यत्वात् त्रसरेणुन स्पार्शन इति । जलादित्रिकव्यतिरेकस्तु स्फुट एव ।
न च तेजोविशेष एव तमः, सूर्यादितेजसा सह विरोधात, तद्विरोधि तेजोऽन्तरमेवेदमिति चेन । सप्रभेषु रत्नादिषु छायारूपं तमो न स्यात् । रत्नप्रभया सह विरोधात् । अनभिभूतया तया सह विरोधः । सा चाभिभूतैवेति चेन्न । पृथिव्यादिना तेजसोऽनभिभवात् । तेजोऽन्तरस्य तदभिभावकस्यानुपलम्भात् । न च छाययैव तदभिभः । बहलतमे तमसि तदग्रहप्रसङ्गात् । न च तेजोऽन्तरमेवाभिभावकम् । तस्यानुपलम्भात् । तेजोऽभिभावकस्य छायाभिभावकत्वापाताच्च ।
नापि विभुचतुष्कम् । अव्यापकत्वादनित्यत्वाच्च । न मनः प्रत्यक्षत्वात् । तस्माद् यावद्विशेषबाधाद् भावत्वमेवास्य बाधितमिति ।
___ मैवम् । रूपवत्त्वक्रियावत्त्वपरिमाणवत्त्वादिना द्रव्यत्वस्यैवोचितत्वात् । न च पृथिव्यादिनवकानन्तर्भावाद् बाधितमस्य द्रव्यत्वमिति वाच्यम् । अन्यथाऽनुपपत्त्या दशमद्रव्यकल्पनात् । अन्यथा जलत्वबाधात्" पृथिव्यपि द्रव्यान्तरं न स्यात् । न च विषयसंस्कारकबाह्यालोकासहकृतचक्षुर्ग्राह्यत्वात् द्रव्यत्वमस्य बाधितमिति वाच्यम् । तेजस्येव व्यभिचारात् । अन्ये तु न तेजसि व्यभिचारस्तत्राऽप्यवयविग्रहेऽवयवस्यावयविनोऽवयवान्तरस्य वा विषयसंस्कारकतेजसो" विद्यमानत्वात् । न च तैजसत्रसरेणुस्थले न चैवं" सम्भवतीति वाच्यम् । तस्य जालस्थसौरालोकसंस्कार्यत्वात् । न च संयोगेन
१ P wrongly combines न with गृह्यते; Ms inserts न with a caret। २. P has स्पार्शनयोग्यतैव । ३. P adds हि। १. P+M, add केचित् here । ५. P. reads रत्नादिप्रभया । ६. P+MI read चाभिभूतेति । ७. Mg and M1 read तेजोऽनभिभवात् । ८. Pn reads अभिभावुकः । ९. P. reads तस्याभिभावकम्। १०. P+I.O. read दशमद्रव्यपरिकल्पनात् ; Ma reads दशमस्येव व्यस्य कल्पनात् । ११. Pn read जलत्वव्याघातात् , M, +I. O. read जलत्वादिबाधात् । १२. P. reads विषयसंस्कारकबाह्यालोकसहकृतचक्षुर्याह्यत्वाभावात् ।१३. P+Ma read तेजसि न । १४. P. reads (अ)वयविनो प्रहेऽवयवस्यावयवावयवस्यावयवान्तरस्य । Pn reads (अ)वयविनो ग्रहेऽवयवस्य अवयवस्य ग्रहेऽवयविनोऽवयवान्तरस्य । M, reads (अ)वयविनो ग्रहेऽवयवस्यावयवान्तरस्य वा । १५. P+Ma reads विषयसंस्कारकस्य तेजसो । १६. P+Ma read मैवम् । १७. MI reads सुरालोक।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org