________________
न्यायसिद्धान्तदीपे प्रत्यक्षत्वात् । नाप्यात्मसमवेतः चाक्षुषत्वात् । अत एव न नभो. नभस्वतोः । नापि तेजसः तेन समं विरोधात । तेजोरूपाविषयचाक्षुषसाक्षात्कारविषयखाच्च । न च तेजोरूपमेव तमः । शुक्लभास्वरखानाश्रयत्वात् । इन्द्रनीलप्रभावदाश्रयसम्पर्कोनीलबुद्धिरुपजायते इति चेन्न । तथाभूताश्रयाननुविधानात् । तद्वत् परप्रकाशकत्वप्रसङ्गाच्च । नापि पृथिवीजलयोस्तद्रूपेऽन्धकारस्य व्यवहाराभावात् । न चोपलभ्यमानरूपातिरिक्तमेव पृथिव्या जलस्य वा रूपमेकदैको रूपद्वयासमावेशात् आलोकं विना तद्रूपंचाक्षुषताविरोधाच्च । तेजोऽभावग्रहे तेजोपेक्षया विरोधेन परिहृतत्वात् ।
__ नापि कर्म, चलनात्मकतयाऽनुपलम्भात् । अन्धकारवति गेहादौ चलतीति प्रत्ययप्रसङ्गाच्च ।
नापि द्रव्यम् , पृथिव्यादिनवकबहिर्भावात् ।
ननु नीलरूपवत्त्वेन पृथिव्यामेवासावन्तर्भवतु । उद्भूतरूपस्य पार्थिवस्योद्भूतस्पर्शवत्तानियमोऽसिद्ध एव । इन्द्रनीलप्रभासहचरनीलभागेन व्यभिचारात् । तदीयस्पर्शायोग्यत्वेऽपि नीलरूपस्य योग्यत्वात् । न चोद्भूतस्पर्शेन्द्रनीलमणिरूपमेव प्रभायामारोप्यत इति युक्तम् । इन्द्रनीलग्रहव्यतिरेकेऽपि तत्प्रभायां नीलप्रत्ययदर्शनादिति । मैवम् । एवम्भूतोदाहरणासिद्धेः । सिद्धावपीन्द्रनीलस्यान्यस्य वा स्मर्यमाणस्यैव रूपस्यारोपेणाऽन्यथासिद्धौ तत्सहचरतया तथाभूतनीलभागाकल्पनात् ।
न च जालान्तर्गतमरीचिस्थोद्भूतरूपसूक्ष्मपार्थिवेन व्यभिचारः । वस्त्रपाटनानन्तरमुपलभ्यमानजालमरीचिस्थसूक्ष्मभागवत् तस्यापि उदभूतस्पर्शवत्तानुमानात् । तर्हि त्रसरेणुस्पर्शः किमिति नोपलभ्यते । महत्त्वसमानाधिकरणो
१. P reads चाक्षुषप्रतीतिविषयत्वाच्च । २. M, drops च । ३. P reads (आ)श्रयसम्पर्कवन्नीलबुद्धिः । ४. P reads (अ)न्धकारव्यवहाराभावात् । ५. P reads रूपमेकत्रैकदा । ६. M1 reads तद्रूपे चाक्षुषताविरोधाच्च । ७. M adds स । ८. P+Mg read बहिर्भूतत्वात् । ९. P has स्पर्शवत्त्वनियमो । १०. P has स्पर्शस्यायोग्यत्वेपि । ११. P reads तत्सहचरतथाभूतनीलभागाकल्पनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org